भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9815-9834

9815

कालव्यालहतं वीक्ष्य पतन्तं भानुमम्बरात् ।
ओषधीशं समादाय धावतीव पितृप्रसूः ॥

9816

कालविच्छ्रोत्रियो राजा नदी साधुश्च पञ्चमः ।
एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥

9817

कालश्चालयति प्रायः पण्डितान् पामरानपि ।
तं चेच् चिकीर्षसि वशे तितिक्षैव महौषधम् ॥

9818

कालश्चेत् करुणापरः कलियुगं यद्यद्य धर्मप्रियं निस्त्रिंशो यदि पेशलो विषधरः सन्तोषदायी यदि ।
अग्निश्चेदतिशीतलं खलजनः सर्वोपकारी स चेद् आयुष्यं यदि वा भविष्यति विषं वेश्यापि तद् रागिणी ॥

9819

कालस्य कारणं राजा सदसत्कर्मणस्त्वतः ।
सुकार्योद्यतदण्डाभ्यां स्वधर्मे स्थापयेत् प्रजाः ॥

9820

... ... ... ... ... ... ।
कालस्य सुमहद्बीर्यं सर्वभूतेषु लक्ष्मण ॥

9821

कालस्यैव वशो सर्वं दुर्गं दुर्गतरं च यत् ।
काले क्रुद्धे कथं कालात् त्राणं नोऽद्य भविष्यति ॥
कालागरूद्गारसुगन्धिगन्ध- धूपाधिवासाश्रयभूगृहेषु ।
न तत्र सुर्माघसमीरणेभ्यः श्यामाकुचोष्माश्रयिणः पुमांसः ॥

9822

कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः ।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात् प्रविशन्ति नार्यः ॥

9823

कालागुरौ सुरभितातिशयेऽपि सङ्गाद् आरभ्यते सुरभितापरपादपेऽपि ।
पाटीरपाटवमिदं तव सङ्गिवातैस् तादात्म्यमेति कतरो न तरोः समूहः ॥

9824

कालाग्निरुद्र आधारे शक्तिः कुण्डलिनी तथा ।
आनन्दाख्या स्वधिष्ठाने शक्त्या कामाख्यया सह ॥

9825

कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय स्फारैर्भीषय गर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय ।
यस्यानन्यगतेः पयोद मनसो जिंज्ञासया चातक- स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥

9826

कालातिक्रमणं वृत्तेर् यो न कुर्वीत भूपतिः ।
कदाचित् तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥

9827

कालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः ।
भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ॥

9828

कालातिपातः कार्याणां धर्मार्थपरिपीडनम् ।
नित्याभ्यन्तरवर्तित्वात् साधुप्रकृतिकोपनम् ॥

9829

रहस्यभेदस् तत् पक्षाद् अकार्येषु प्रवर्तनम् ।
ईर्ष्यामर्षस् तथा क्रोधो निरोधः साहसानि च ॥

9830

इत्यादि च स्त्रीव्यसने यच् च पूर्वं प्रकीर्तितम् ।
तस्मात् स्त्रीव्यसनं राजा राज्यकामः परित्यजेत् ॥

9831

कालात् प्ररोहति विश्वं पुनः कालः प्रवर्तते ।
स्थूलसूक्ष्मगतिः कालो विविधं तस्य चोच्यते ॥

9832

कालात् प्रवर्तते बीजं कालाद् गर्भं प्रमुञ्चति ।
कालो जनयते पुत्रं पुनः कालोऽपि संहरेत् ॥

9833

कालाद् प्ररोहते बीजं फलं कालात् प्रवर्तते ।
कालो हि वर्तयेत् सृष्टिं पुनः कालो हि संहरेत् ॥

9834

कालानपास्य विषुवायनसंक्रमादीन् अस्तंगते हिमकरे च दिवाकरे च ।
अम्ब स्मरेयमपि ते चरणारविन्दम् आनन्दलक्षणमपास्तसमस्तभेदम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc