भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9795-9814

9795

कालकालगलकालकालमुखकालकाल! कालकाल घनकालकाल पनकालकाल ! ।
कालकालसितकालका ललनिकालकाल- कालकालगतु कालकाल! कलिकालकाल! ॥

9796

कालकूटमधुनापि निहन्तुं हन्त नो वहसि लाञ्छनभङ्ग्या ।
यद्भयादिव निगीर्णमपि त्वाम् आशु मुञ्चति सुधाकर राहुः ॥

9797

कालकूटमिह निन्दति लोको येन शम्भुरजरामर एव ।
अन्तकं विरहिणीशु सुधांशुं स्तौत्यमुं तु विरलो हि विवेकः ॥

9798

कालकूटादयो भेदा विषस्य नव सन्ति ये ।
चिकित्सा कथ्यते तेषां मन्त्रपूर्वमविस्तरात् ॥

9799

कालक्रमं प्रत्यकथैव तावत् क्षणं वियोगो मरणेन तुल्यः ।
प्रियामुखोद्वीक्षणलालसानाम् अक्ष्णोर्निमेषोऽपि हि विघ्नभूतः ॥

9800

कालक्रमकमनीय- क्रोडेयं केतकीति काशंसा ।
वृद्धिर्यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः ॥

9801

कालक्रमत्रुटितसंश्रयभूः स्वमूल- मात्राश्रयी तटतरुः सरितोऽम्बुपूरैः ।
यैः शङ्क्यते निपततीति वितीर्णमृद्धिस् तैरेव तस्य हि भवेत् स्थितिभुमिदार्ढ्यम् ॥

9802

कालक्रमेण परिणामवशादनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः ।
मुक्तामणिर्जलदतोयकणोऽप्यणीयान् सम्पद्यते च चिरकीचकरन्ध्रमध्ये ॥

9803

कालक्षेपो न कर्तव्य आयुर्याति दिने दिने ।
निरीक्षते यमो राजा धर्मस्य विविधां गतिम् ॥

9804

का लक्ष्मीः पदमुन्नतं, किमु पदं यद् गौरवं स्वामिनः किं तद् गौरव, मन्तरायरहितापूर्वैव गुर्वी स्थितिः ।
का चासौ स्थिति, रात्मभूषणपरव्यापारसम्भावना कस्यैतत् सकलं समस्ति, शशिनः श्रीकण्ठचुडामणेः ॥

9805

कालञ्जरपतिश्चक्रे भीमटः पञ्चनाटकीम् ।
प्राप प्रबन्धराजत्वं तेषु स्वप्नदशाननम् ॥
कालत्रयेऽपि यत् किंचिद् आत्मप्रत्ययवर्जितम् ।
एवमेतदिति स्पष्टं न वाच्यं चतुरेण तत् ॥

9806

कालत्रयोपपन्नानि जन्मकर्माणि मे नृप ।
अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥

9807

कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् ।
अन्यहस्तगतं दृष्ट्वा पश्चात् स परितप्यते ॥

9808

कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् ।
अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान् ॥

9809

कालयापनमाशानां वर्धनं फलखण्डनम् ।
विरक्तेश्वरचिह्नानि जानीयान्मतिमान् नरः ॥

9810

कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससे ।
तज्जगत्त्रितयं त्रातुं तात ताडय ताटकाम् ॥

9811

कालरात्रिर्महारात्रिर् मोहरात्रिश्च दारुणा ।
त्वं श्रीस् त्वमीश्वरी त्वं ह्रीस् त्वं बुद्धिर्बोधलक्षणा ॥

9812

कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।
सम्पद् यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥

9813

कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव ।
अनध्यार्पित एवासौ तज्ज्ञश्चेद् दैवमुत्तमम् ॥

9814

कालविद्भिविर्निर्णीता यस्यातिचिरजीविता ।
स चेज् जीवति संच्छिन्नशिरास्तद् दैवमुत्तमम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc