महासुभाषितसंग्रह · श्लोक 9835-9854
कालानुकूल्यं विस्पष्टं राघवस्यार्जुनस्य च ।
अनुकूले यदा दैवे क्रियाल्पा सुफला भवेत् ॥
कालान्तरे ह्मनर्थाय गृध्रो गेहोपरि स्थितः ।
खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनाम् ॥
कालञ्जराः भारसहास् तेषां वक्ष्यामि लक्षणम् ।
शतार्धमङ्गुलानां तु श्रेष्ठं खड्गं प्रकीर्तितम् ॥
कालिदास कलावास दासवच् चालितो यदि ।
राजमार्गे व्रजन्नत्र परेषां तत्र का त्रपा ॥
कालिदासकविता नवं वयो माहिषं दधि सशर्करं पयः ।
एणमांसमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥
कालिदासकवेर्वाणी कदाचिन् मद्गिरा सह ।
कलयत्यर्थसाम्यं चेद् भीता भीता पदे पदे ॥
कालिन्दि, ब्रूहि कुम्भोद्भव, जलधिरहं नाम गृह्णासि कस्माच् छत्रोर्मे, नर्मदाहं त्वमपि वदसि मे नाम कस्मात् सपत्न्याः ।
मालिन्यं तर्हि कस्मादनुभवसि, मिलत्कज्जलैर्मालवीनां नेत्राम्भोभिः, किमासां समजनि, कुपितः कुन्तलक्षोणिपालः ॥
कालिन्दीं वीक्ष्य यातां सुललितवदनो मातरं गेहगोपीः कार्यासक्ताः समन्तादनुगतनयनो गोरसागारमन्तः ।
गत्वा भाण्डानि भित्त्वा मधुमधु शनकैर्गोरसं भक्षमाणः शीघ्रप्रत्याप्तनन्दाकलितसितमुखो नन्दसूनुः शिवाय ॥
कालिन्दीकलकूलकाननकृतक्रीडाकलापोल्लस द्- गोगोपालकबालकैः प्रतिदिशं सानन्दमाविष्टितम् ।
वंशीनादवशीकृतव्रजवधूस्वान्तं सदाह्नादकं सद्भक्त्या समुपास्महे वयमघध्वंसैकधीरं महः ॥
कालिन्दीकेशपाशः परिलसति महीनायिकायास् तनूजा जह्नीः सत्पुण्यसंघो गुण इह सलिलं यच्च सारस्वसं तु ।
वेणी त्वेषा विशेषादमरवरलसत्स्नेहयुक्ता वियुक्ता बन्धेनेत्यत्र चित्रं विलसति नितरां यत्तमोवर्णहीना ॥
कालिन्दीचारुवीचीनिचय इति मुदा गाहिता नैचिकीभिर् बाला कादम्बिनीति प्रमुदितहृदयं वीक्षिता नीलकण्ठैः ।
उत्तंसार्थं तमालस्तबक इति हृता मुग्धगोपाङ्गनाभिः श्रेयो नः कल्पयन्तां मधुमथनतनुस्वच्छकान्तिप्रवाहाः ॥
कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो राधाबद्धनवानुरागरसिकस्योत्कण्ठितं गायतः ।
तत्पायादपरिस्खलज्जलरुहापीडं कलस्पृङ्नत- ग्रीवोत्तानितकर्णतर्णककुलैराकर्ण्यमानं हरेः ॥
कालिन्दीजलकेलिलोलतरुणीरावीतचीनांशु का निर्गत्याङ्गजलानि सारितवतीरालोक्य सर्वा दिशः ।
तीरोपान्तमिलन्निकुञ्जभवने गूढं चिरात् पश्यतः शौरेः संभ्रमयन्निमा विजयते साकूतवेणुध्वनिः ॥
कालिन्दीतटभेदि हास्तिनपुरीदौस्थ्यादिभिः ख्यापित- स्थेमा यस्य जयत्यखण्डजगदानन्दैककन्दो भूजः ।
मुष्ट्या निष्ठुरयैष मुष्टिकशिरोनिष्ट्यूतरक्तक्छटाच्- छद्मोद्वान्तरुषा भिनत्तु भवतां भद्रेतरं लाङ्गलम् ॥
कालिन्दीनर्मदाम्भःस्रुतमदसलिलोत्सङ्गिनौ पुष्पवन्तौ विभ्राणः कुम्भयुग्मं गगनतलततः स्वर्धुनीपूरशुण्डः ।
घण्टालः साधुवादैरनभिमतयशो देव मृद्नन् मृणालं कीर्तिस्तोमाभ्रकुम्भी जगदुदरसरःसंभ्रमी बम्भ्रमीति ॥
कालिन्दीपुलिनान्तवञ्जुललताकुञ्जे कुतश्चित् क्रमात् सुप्तस्यैव मिथः कथाजुषि शनैः सम्वाहिकामण्डले ।
वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषो हुं हुं वत्स धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥
कालिन्दीपुलिने मया, न न मया शैलोपशल्ये, न न न्यग्रोधस्य तले मया, न न मया राधापितुः प्राङ्गणे ।
दृष्टः कृष्ण इतीरितस्य सभयं गोपैर्यशोदापतेर् विस्मेरस्य पुरो हसन् निजगृहान्निर्यन् हरिः पातु वः ॥
कालिन्दीपुलिनोदरेषु मुसली यावद् गतः क्रीडितुं तावत् कर्बुरिकापयः पिब हरे वार्धिष्यते ते शिखा ।
इत्थं बालतया प्रतारणपरा श्रुत्वा यशोदागिरः पायाद्वः स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥
कालिन्दीमनुकूलकोमलरयामिन्दीवरश्यामलाः शैलोपान्तभुवः कदम्बकुसुमैरामोदिनः कन्दरान् ।
राधां च प्रथमाभिसारमधुरां जातानुतापः स्मरन् अस्तु द्वारवतीपतिस्त्रिभुवनामोदाय दामोदरः ॥
कालिन्दीयं द्विरददलिंताम्भोजिनीरेणुरम्या यस्याः कृष्णः शिशिरपयसस्तीरकेदारचारी ।
गायन्तीनां किमपि मधुरं बालगोपालिकानां लीलालोलः कमलकलिकाः कर्णपूरीचकार ॥
कालिन्दीयति कज्जलीयति कलानाथाङ्कमालीयति व्यालीयत्यहिमण्डलीयति मुहुः श्रीकण्ठकण्ठीयति ।
शैवालीयति कोकिलीयति महानीलाभ्रजालीयति भ्रह्माण्डे रिपुदुर्यशस्तव नृपालंकारचूडामणे ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0