महासुभाषितसंग्रह · श्लोक 9775-9794
कार्श्यं क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले ।
एतान्येव गृहे वहन्त्यवनतिं यान्त्युन्नतिं कानने दोषा एव गुणीभवन्ति मुनिभिर्योग्ये पदे योजिताः ॥
कार्श्यं चेत् प्रतिपत्कला हिमनिधेः स्थूलाथ चेत् पाण्डिमा लीला एव मृणालिका यदि घना बाष्पाः कियान् वारिधिः ।
सन्तापो यदि शीतलो हुतवहस् तस्याः कियद् वर्ण्यते राम त्वत्स्मृतिमात्रमेव हृदये लावण्यशेषं वपुः ॥
कार्श्यजागरसन्तापान् यः करोति श्रुतोऽप्यलम् ।
तमेव दुर्लभं कान्तं चेतः कस्माद् दिदृक्षते ॥
कार्षकः सर्वबीजानि समालोड्य प्रवापयेत् ।
उत्पन्नबीजसद्भावं त्वङ्कुरेण विभावयेत् ॥
कालं कपालमालाङ्कम् एकमन्धकसूदनम् ।
वन्दे वरदमीशानं शासनं पुष्पधन्वनः ॥
कालं नियम्य कर्माणि ह्याचरेन् नान्यथा क्वचित् ।
गवादिष्वात्मवज्ज्ञानम् आत्मानं चार्थधर्मयोः ।
नियुञ्जीतान्नसंसिद्ध्यै मातरं शिक्षणे गुरुम् ॥
कालं निरीक्ष्य कुरुते कार्यं तस्याशु सिध्यति ।
ग्रहं विचार्य क्रीडायां दीव्यतो न पराजयः ॥
कालं पुरा गरलमम्बुनिधेरुदस्थाद् अद्येन्दुनाम धवलं विषमभ्युदेति ।
अद्यादिदं स गिरिशो यदि हन्त हन्यात् कार्ष्ण्यं स्वकण्ठनिहितं सखि मद्भयं च ॥
कालं मुहूर्ताङ्गुलिमण्डलेन दिनत्रियामाञ्जलिना पिबन्तम् ।
रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥
कालः करोति कार्याणि काल एव निहन्ति च ।
करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ॥
कालः किरातः स्फुटपद्मकस्य वधं व्यधाद्यस्य दिनद्बिपस्य ।
तस्येव सन्ध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि ॥
कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥
कालः पचति भूतानि कालः संहरति प्रजाः ।
निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥
कालः संप्रति वर्तते कलियुगं सत्या नरा दुर्लभाः देशाश्च प्रलयं गताः करभरैर्लोभं गताः पार्थिवाः ।
नानाचौरगणा मुषन्ति पृथिवीमार्यो जनः क्षीयते पुत्रस्यापि न विश्वसन्ति पितरः कष्टं युगे वर्तते ॥
कालः सदागतिरपि स्थायीव परिचेष्टते ।
चण्डमारुतवद् विश्वम् अधरोत्तरयन् क्षणात् ॥
कालः समविषमकरः परिभवसन्मानकारकः कालः ।
कालः करोति पुरुषं दातारं याचितारं च ॥
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥
कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते ।
स्थूलसंग्रहचारेण सूक्ष्माचारान्तरेण च ॥
कालः मृजति भूतानि कालः संहरते प्रजाः ।
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥
काल एवात्र कालेन निग्रहानुग्रहौ ददत् ।
बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0