महासुभाषितसंग्रह · श्लोक 9755-9774
कार्यारम्भः फलोल्लासम् आलोक्य प्रायशो जनैः ।
अनानुगुण्यगणनां कुर्वाणैर्न विगर्ह्यते ॥
कार्यार्थिनः क्षीणतरस्य नैव निःशेषकार्यं कुटिलस्य कुर्यात् ।
दोषाकरः प्राप्तविवृद्धदर्पः पलायते दूरतरं हि मित्रात् ॥
कार्यार्थिनो दीर्घमिवाध्वखेदं विक्रीतदासा इव कर्मभारम् ।
कष्टं कटुद्रव्यमिवामयार्ताः स्वभर्तृगेहं वनिता सहन्ते ॥
कार्यार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्राणि ।
दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥
कार्यार्थी भजते लोके यावत् कार्यं न सिध्यति ।
उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम् ॥
कार्यार्थी भजते लोको न प्रियः पारमार्थिकः ।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥
कार्यार्थी संगतिं याति कृतार्थे नास्ति संगतिः ।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥
कार्यावेतौ हि कालेन धर्मो हि विजयावहः ।
त्रयाणामपि लोकानाम् आलोककरणो भवेत् ॥
कार्यासमर्थे महति न कुर्यात् परिहासकम् ।
लम्बोदरं नत्यशक्तम् अप्रेष्योऽभूच्छशी हसन् ॥
कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास् तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥
कार्यं कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् ।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥
न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।
यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥
कार्येण लोके निजधर्मगर्हणा विचारचर्चाचरणैस्तु यैर्भुवि ।
स्यात् तन्न कार्यं सुहितावहं भवद् अपीह भव्यं स्वविचारदृष्टितः ॥
कार्येणापि विलम्बनं परगृहे श्वश्रूर्न संमन्यते शङ्कामारचयन्ति यूनि भवनं प्राप्ते मिथो यातरः ।
वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा ननान्दा पुनः कष्टं हन्त मृगीदृशां पतिगृहं प्रायेण कारागृहम् ॥
कार्ये तु दुःखसाध्ये तु कार्यो नातिश्रमो जनैः ।
कार्ये सिद्धे श्रमो न स्याद् असिद्धे श्रम एव हि ॥
कार्ये दासी रतौ वेश्या भोजने जननीसमा ।
विपत्तौ बुद्धिदात्री च सा भार्या सर्वदुर्लभा ॥
कार्ये महति युञ्जानो हीयतेऽर्थपतिः श्रिया ।
स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च ।
मूर्खामात्यप्रतप्तानि शुष्यन्ति जलबिन्दुवत् ॥
कार्येषु मन्त्री करणेषु दासी भोज्येषु माता शयनेषु रम्भा ।
धर्मेऽनुकूला क्षमया धरित्री भार्या च षाड्गुण्यवतीह धन्या ॥
कार्येषु मन्त्री करणेषु दासी स्नेहेषु माता क्षमया धरित्री ।
धर्मस्य पत्नी शयने च वेश्या षट्कर्मभिः स्त्री कुलमुद्धरन्ति ॥
कार्ये सत्यपि जातु याति न बहिर्नाप्यन्यमालोकते साध्वीरप्यनुकुर्वती गुरुजनं श्वश्रूं च शुश्रूषते ।
विस्रम्भं कुरुते च पत्युरधिकं प्राप्ते निशीथे पुनर् निद्राणे सकले जने शशिमुखी निर्याति रन्तुं विटैः ॥
कार्येहानुसरणतो वारंवारं परं पुमांसमनु ।
यतमानस्यानुदिनं भवति यतः प्रेमलक्षणं भजनम् ॥
कार्योपक्षेपमादौ तनुमपि रचयंस् तस्य विस्तारमिच्छन् बीजानां गर्भितानां फलमतिगहनं गूढमुद्भेदयंश्च ।
कुर्वन् बुद्ध्या विमर्शं प्रसृतमपि पुनः संहरन् कार्यजातं कर्ता वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0