भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9735-9754

9735

कार्यकालोचिता पापैर् मतिबुद्धिर्विहीयते ।
सानुकूला तु वैदैवात् पुंसः सर्वत्र जायते ॥

9736

कार्यगतेर्वैचित्र्या- न्नीचोऽपि क्वचिदलं न जातु महान् ।
कांस्येनैवादर्शः क्रियते राज्ञामपि न हेम्ना ॥

9737

कार्यज्ञः प्रष्टव्यो न पुनर्मान्यो मम प्रियो वेति ।
गुरुरप्यासनसेव्यः प्रियानितम्बः कदा मन्त्री ॥

9738

कार्यते यच्च क्रियते सच्चासच्च कृतं ततः ।
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥

9739

कार्यमालोचितापायं मतिमद्भिर्विचेष्टितम् ।
न केवलं हि सम्पत्तौ विपत्तावपि शोभते ॥

9740

कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव सत् त्यागः सात्त्विको मतः ॥

9741

कार्यस्य हि गरीयस्त्वान् नीचानामपि कालवित् ।
सतोऽपि दोषान् प्रच्छाद्य गुणानप्यसतो वदेत् ॥

9742

कार्यस्यापेक्षया भुक्तं विषमप्यमृतायते ।
सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥

9743

कार्याकार्यमनार्यैर् उन्मार्गनिरर्गलैर्गलन्मतिभिः ।
नाकर्ण्यते विकर्णैर् नयोक्तिभिर्युक्तमुक्तमपि ॥

9744

कार्याकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवन्मुक्तस्थितिरवगतो दग्धवस्त्रावभासः ।
एवं देहे प्रविलयगते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥

9745

कार्याकार्ये तुलयति सर्वस् तृप्तो न जातु तृष्णार्तः ।
स्वादु शुचि वा च तोयं मरुपथिकः को विचारयति ॥

9746

कार्याकार्येषु काकोलः प्रशस्तः स्याद् यथा किल ।
न तथा वायसा ज्ञेया ग्राह्यास्तु तदभावतः ॥

9747

कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।
... ... ... ... ... ... ॥

9748

कार्याणां गतयो भुजंगकुटिलाः स्त्रीणां मनश्चञ्चलं नैश्वर्यं स्थितिमत्तरंगचपलं न् णां वयो धावति ।
संकल्पाः समदाङ्गनाक्षितरला मृत्युः परं निश्चितो मत्यैवं मतिसत्तमा विदधतां धर्मे मतिं तत्त्वतः ॥

9749

कार्याण्यर्थोपमर्देन स्वानुरक्तोऽपि साधयन् ।
नोपेक्ष्यः सचिवो राज्ञा स तं मथ्नात्युपेक्षितः ॥

9750

कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैऽव ते मन्त्रिणः ।
निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैस् तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस् तुलाम् ॥

9751

कार्या न प्रतिकूलता न च बहिर्गन्तव्यमस्माद् गृहात् कोपश्च क्षणमात्रमाहितरुषा कार्यः प्रणामावधिः ।
इत्येवं प्रमदाव्रतं यदि भवान् गृह्णाति नात्यन्तिकं तत्राहं दयितीभवामि शठ हे कोपानुबन्धेन किम् ॥

9752

कार्यान्तरितोत्कण्ठं दिनं मया नीतमनतिकृच्छ्रेण ।
अविनोददीर्घयामा कथं नु रात्रिर्गमयितव्या ॥

9753

कार्यान्तरेष्वप्यनुगम्यमाना श्रेयःप्रदा शान्तदिशि प्रदिष्टा ।
शिवा प्रदीप्ते तु दिशःप्रदेशे समारटन्ती महते भयाय ॥

9754

कार्यापेक्षी जनः प्रायः प्रीतिमाविष्करोत्यलम् ।
लोमार्थी शौण्डिकः शष्पैर् मेषं पुष्णाति पेशलैः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc