महासुभाषितसंग्रह · श्लोक 9715-9734
कार्णाटीकेलिवाटीविटपिनवदलान्दोलनाश्चोलबाला- चञ्चच्चाम्पेयमालानिविलपरिमलाकर्षणोत्कर्षब् हाजः ।
वाता दातार एते मलयजमधुरामोदपूरैः प्रमोदान् गोदावीचीविनोदार्जितजडिमगुणानुद्वहन्तो वहन्ति ॥
कार्णाटी स्वर्णकर्णाभरणपरिमिलन्मौक्तिकेष्वम्बुलेशैर् यस्याः संपृक्तमात्रेष्विदमजनि महच्चित्रमुच्चण्डमेव ।
सङ्कीर्णे ताम्रपर्णीजललहरिभरैरर्णवे शुक्तयो यत् सार्धं क्रीडन्ति शच्या शमयतु विपदोऽह्नाय सा जाह्नवी नः ॥
कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते ।
यानमुत्कृष्टवीर्यस्य शत्रुदेशे न चान्यदा ॥
कार्त्तिक्यां कृत्तिकायोगे यः कुर्यात् स्वामिदर्शनम् ।
सप्तजन्म भवेद् विप्रो धनाढ्यो वेदपारगः ॥
कार्त्स्न्येन निर्वर्णयितुं च रूपम् इच्छन्ति तत्पूर्वसमागमानाम् ।
न च प्रियेष्वायतलोचनानां समग्रपातीनि विलोचनानि ॥
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ।
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥
कार्पण्यवृत्तिः स्वजनेषु निन्दा कुचेलता नीचजनेषु भक्तिः ।
अतीव रोषः कटुका च वाणी नरस्य चिह्नं नरकागतस्य ॥
कार्पण्येन यशः, क्रुधा गुणचयो, दम्भेन सत्यं, क्षुधा मर्यादा, व्यसनैर्धनं च, विपदा स्थैर्यं, प्रमादैर्द्विजः ।
पैशुन्येन कुलं, मदेन विनयो, दुश्चेष्टया पौरुषं दारिद्र्येण जनादरो, ममतया चात्मप्रकाशो हतः ॥
कार्पासं कटिनिर्मुक्तं कौशेयं भोजनावधि ।
ऊर्णवस्त्रं सदा शुद्धम् ऊर्णा वातेन शुध्यति ॥
कार्पासकृतकूर्पासशतैरपि न शाम्यति ।
शीतं शातोदरीपीनवक्षोजालिङ्गनं विना ॥
कार्पासकोशोज्ज्वलकेशसंचया पयोधरालिङ्गितमन्मथालया ।
गल्लौ जरद्गल्लकसंनिभावुभौ तथापि रण्डा सुरतं न मुञ्चति ॥
कार्पासौषधकृष्णधान्यलवणक्लीबास्थितैलं वसा- पङ्काङ्गारगुडाहिवर्मशकृतक्लेशाय सव्याधिताः ।
वान्तोन्मत्तजटीन्धनानि च तृणक्षुत्क्षामतक्रादयो मुण्ड्यभ्यक्तविमुक्तकेशपलिताः काषायिणश्चाशुभाः ॥
कार्यं च किं ते परदोषदृष्ट्या कार्यं च किं ते परचिन्तया च ।
वृषा कथं खिद्यसि बालबुद्धे कुरु स्वकार्यं त्यज सर्वमन्यान् ॥
कार्यं च शान्तदीप्तं जात्वा विद्वान् विचारयेत् सर्वम् ।
शान्ते शान्तं ग्राह्यं दीप्ते दीप्तं च गृह्णीयात् ॥
कार्यं चावेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥
कार्यं तत्साधकादींश्च तद्व्ययं सुविर्निर्गमम् ।
विचिन्त्य कुरुते ज्ञानी नत्न्यथा लघ्वपि क्वचित् ॥
कार्यं यावदिवं करोमि विधिवत् तावत् करिष्याम्यदस् तत् कृत्वा पुनरेतदद्य कृतवानेतत् पुरा कारितम् ।
इत्यात्मीयकुटुम्बपोषणपरः प्राणी क्रियाव्याकुलो मृत्योरेति करग्रहं हतमतिः संत्यक्तधर्मक्रियः ॥
कार्यं शक्तावपि प्राणेस् त्राणं शरणमागते ।
निजतृष्ठानुगं धातुं प्रदीपः किं न रक्षति ॥
कार्यः कश्चिद्वरो दूतः सकुलश्चतुरोऽपि च ।
कुलशीलविहीनस्तु सिर्द्धि नाशयति ध्रुवम् ॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥
कार्यकाले तु संप्राप्ते नावज्ञेयं त्रयं सदा ।
बीजमौषधमाहारो यथा लाभस् तथा क्रयः ॥
कार्यकाले विपत्तौ यो भृत्यो हि याचते धनम् ।
सोत्सारणीयः सपदि नीतिज्ञावनिपालकैः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0