महासुभाषितसंग्रह · श्लोक 9695-9714
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥
काये सीदति कण्ठरोधिनि कफे कुण्ठे च वाणीपथे जिह्मायां दृशि जीविते जिगमिषौ श्वासे शनैः शाम्यति ।
आगत्य स्वयमेव नः करुणया कात्यायनीवल्लभः कर्णे वर्णयताद् भवार्णवभयादुत्तारकं तारकम् ॥
कारञ्जीः कूजयन्तो निजजठररवव्यञ्जिता बौजकोशिर् उत्पाकान् कृष्णलानां पृथुसुषिरगताञ् शिम्बिकान् पारयन्तः ।
झिल्लीकाझल्लरीणां बधिरितभुवनं झंकृतं खे क्षिपन्तः शिञ्जानाश्वत्थपत्रप्रकरझणझणाराविणो वान्ति वाताः ॥
कारणाकारणध्वस्तं कारणाकारणागतम् ।
यो मित्रं समुपेक्षेत स मृत्युमुपगूहति ॥
कारणात् प्रियतामेति द्वेष्यो भवति कारणात् ।
अर्थार्थी जीवलोकोऽयं न कश्चित् कस्यचित् प्रियः ॥
कारणान्मित्रताम् एति कारणाद् याति शत्रुताम् ।
तस्मान्मित्रत्वम् एवात्र योज्यं वैरं न धीमता ॥
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः ।
स गृह्णाति विषोन्मादं कृष्णसर्पप्रदंशितः ॥
कारणेनैव जायन्ते मित्राणि रिपवस् तथा ।
रिपवो येन जायन्ते कारणं तत् परित्यजेत् ॥
कारणैः सदृशं कार्यम् इति मिथ्या प्रसिद्धयः ।
मानिनो भवतो जातं यदमानं यशो भुवि ॥
कारणोत्पन्नकोपोऽपि साम्प्रतं प्रमदाजनः ।
निशि शीतापदेशेन गाढमालिङ्गति प्रियम् ॥
कारण्डवाननविघट्टितवीचिमालाः कादम्बसारसचयाकुलतीरदेशाः ।
कुर्वन्ति हंसविरुतैः परितो जनस्य प्रीतिं सरोरुहरजोऽरुणितास् तटिन्यः ॥
कारय नाम्ब विलम्बं मुञ्च करं मे हरिं यामि ।
न सहे स्थातुं यदसौ गर्जति मुरली प्रगल्भदूतीव ॥
कारणात् प्रियतामेति द्वेष्यो भवति कारणात् ।
अर्थार्थी जीवलोकोऽयं न कश्चित् कस्यचित् प्रियः ॥
कारासंतानकूटस्य संसारवनवागुरा ।
स्वर्गमार्गमहागर्ता पुंसां स्त्री वेधसा कृता ॥
कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानाम् ।
माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् ॥
कारुण्यं संविभागश्च यथा भृत्येषु लक्ष्यते ।
चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥
कारुण्यपुण्यसत्सद्म कुरु त्वं जनबान्धव ।
मम श्रीपार्श्वतीर्थेश सुप्रसादं सुखास्पदम् ॥
कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिक- ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः ।
ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित- स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥
कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शार्ङ्गाखण्डलचापमम्बुजभवाग्नीन्द्रादिबर्हीष्टदम् ।
चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारता पापहम् ॥
कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता सन्तोषेण परार्थचौर्यपटुता शीलेन रागान्धता ।
नैर्ग्रन्थ्येन परिग्रहग्रहिलता यैयौवनेऽपि स्फुटं पृथ्वीयं सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥
कारुण्येनात्मनो मानं तृष्णां च परितोषतः ।
उत्थानेन जयेत् तन्द्रीं वितर्कं निश्चयाज्जयेत् ॥
कार्कश्यं स्तनयोर्दृशोस् तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कचसंचये च वचने मान्द्यं त्रिके स्थूलता ।
भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये यासां दोषगणो गुणो मृगदृशां ताः स्युः पशूनां प्रियाः ॥
कार्कश्यलौल्यनैवर्ण्यं हिंसाचापल्यमूर्खताः ।
क्रोधावमानदुःखं च स्त्रीणां स्वाभाविका गुणाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0