भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9675-9694

9675

कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा तोयं नास्ति मरीचकासु सततं नास्ति स्थिरत्वं स्त्रियः ।
धर्मो नास्ति च नास्ति कस्य विभवो नास्ति प्रमत्तात्मनः स्नेहानां कणिकापि नास्ति गणिकालोकस्य च प्रायशः ॥

9676

कामोपभोगसाफल्यफलो राज्ञां महीजयः ।
अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया ॥

9677

कामो वामदृशां निधिर्नयजुषां कालानलो विद्विषां स्वःशाखी विदुषां गुरुर्गुणवतां पार्थो धनुर्धारिणाम् ।
लीलावासगृहं कुलाकुलजुषां कर्णः सुवर्णार्थिनां श्रीमान् वीरवरः क्षितीश्वरवरो वर्वर्ति सर्वोपरि ॥

9678

काम्बोजाः कम्बुजन्माकरशरणकृतः सह्यकान्तारकच्छा- न्विच्छायाः कच्छवाहा विदधति कतमे कामरूपाः कुरूपाः ।
कुर्वाणे त्वय्यकस्मात् करकमलहृतं कार्मुकं कूर्मपृष्ठो- त्कृष्टं कर्णान्तकृष्टं नरपकुलमणे कर्णमाकर्णयन्ति ॥

9679

काम्याः क्रियास् तथा कामान् मानुषानभिवाञ्छति ।
स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥

9680

देवत्वममरेशत्वं रसायनचयः क्रियाः ।
मरुत्प्रपतनं यज्ञं जलाद्यावेशनं तथा ॥

9681

श्राद्धानां सर्वदानानां फलानि नियमांस् तथा ।
तथोपवासात् पूर्त्ताच् च देवताभ्यर्च्चनादपि ॥

9682

तेभ्यस् तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति ।
चित्तमित्थं वर्त्तमानं यत्नाद्योगी निवर्त्तयेत् ॥

9683

काम्यानां कतिचित् समापरिमितस्वर्गैकसंदायिनां सद्यः स्वान्तनितान्तमोहनकृतां कर्ता जनः कर्मणाम् ।
आत्मानन्दमनन्यवेद्यमपरिच्छिन्नं न जानाति तं विक्रेता लवणस्य वेत्ति किमु तत्कर्पूरमूल्यं परम् ॥

9684

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः ॥

9685

कायं मत्वा नश्वरं चञ्चलाभं चायुर्बुद्ध्वा भङ्गुरान् सर्वभोगान् ।
पारं गन्तुं विश्वसिन्धोर्विदग्धा योगाभ्यासे साधुबुद्धिं विदध्वम् ॥

9686

कायः कण्टकदूषितो न च घनच्छाया कुतः पल्लवाः पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।
किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जामहे तद् भोः केन गुणेन शाल्मलितरो जातोऽसि सोमद्रुमः ॥

9687

कायः संनिहितापायः संपदः पदमापदाम् ।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥
कालक्लमैर् यश् च तपोऽभिधानैः प्रवृत्तिमाकाङ्क्षति कामहेतोः ।
संसारदोषानपरीक्षमाणो दुःखेन सोऽन्विच्छति दुःखमेव ॥

9688

कायक्लेशेन महता पुरुषः प्राप्नुयात् फलम् ।
तत् सर्वं लभते नारी सुखेन पतिपूजया ॥

9689

कायच्छिन्नास्तु ऋषिका मर्मघ्ना गुरवस् तथा ।
तीक्ष्णाश्छेदसहा वाङ्गा दृढा शूर्पारकोद्भवाः ॥
कायवाङ्मनसां दुष्टप्रणिधानमनादरः ।
स्मृत्यनुपस्थापनं च स्मृताः सामायिकव्रते ॥

9690

कायस्थस्य च शल्यस्य कायस्थस्य च सा गतिः ।
याभ्यामनुप्रविष्टाभ्यां दूष्यन्ते सर्वधातवः ॥

9691

कायस्थेनोदरस्थेन मातुरामिषशङ्कया ।
अन्त्राणि यन्न भुक्तानि तस्य हेतुरदन्तता ॥

9692

कायस्थैर्यं करणपटुतां बन्धुसम्पत्तिमर्थं चातुर्यं वा किमिव हि बलं बिभ्रतो निर्भराः स्मः ।
अन्त्यः श्वासः किमयमथवोपान्त्य इत्यामृशन्तो विस्मृत्येशं निमिषमपि किं वर्तितुं पारयामः ॥

9693

कायेन कुरुते पापं मनसा सम्प्रधार्य च ।
अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥

9694

कायेन त्रिविधं चैव वाचा चैव चतुर्विधम् ।
मनसा त्रिविधं नित्यं दशाधर्मपथांस् त्यजेत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc