महासुभाषितसंग्रह · श्लोक 9655-9674
कामिन्याः कुचयोः कान्तिः पीनत्वेन पुरस्कृता ।
सुवर्णाचलशृङ्गाभां विनिर्जेतुं समुद्यता ॥
कामिन्याः स्तनभारमन्थरगतेर्लीलाचलच्चक्षुषः कन्दर्पैकविलासनित्यवसतेः कीदृक् पुमान् वल्लभः ।
हेलाकृष्टकृपाणपारितगजानीकात् कुतस् तेऽरयः श्व्रासायासविशुष्ककण्ठकुहरा निर्यान्ति जीवार्थिनः ॥
कामिन्यो नीचगामिन्यस् तटिन्य इव निश्चितम् ।
दारा राज्ञोऽपि यत्ताराः प्रणयं यान्ति गोपतेः ॥
कामी कामव्रणपरिगतः कामिनीरेव हित्वा भुङ्क्ते पश्चादपगतभयं कामिनीनां सहस्रम् ।
इत्थंकारं विषयसुखभोगैकतानैर्नरैरप्य् अस्मिन् देहे कतिपयदिनान्येष भोगो विवर्ज्यः ॥
कामुकाः स्युः कथा नीचाः सर्वः कस्मिन् प्रमोदते ।
अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किम् ॥
कामुके नूतनासङ्गगाढालिङ्गनकातरे ।
गणिका गेहगणनां करोति ध्यानमास्थिता ॥
कामुके भ्रमरः प्रोक्तः कामिन्यां चूतमञ्जरी ।
तथाह्वानाङ्कुराश्चापि प्राकारो वारणे स्मृतः ॥
कामुज्जहार हरिरम्बुधिमध्यलग्नां कीदृक् श्रुतं भवति निर्मलमागमानाम् ।
आमन्त्रयस्व वनमग्निशिखावलीढं यच् चापि को दहति के मदयन्ति भृङ्गान् ॥
कामेकपत्नीव्रतदुःखशीलां लोलं मनश् चारुतया प्रविष्टाम् ।
नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ॥
का मे गतिरिति पृच्छति चरमश्वासेऽपि यः स्वार्थम् ।
तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥
का मेघादुपयाति, कृष्णदयिता का वा, सभा कीदृशी, कां रक्षत्यहिहा, शरद् विकचयेत् कं, धैर्यहन्त्री च का ।
कं धत्ते गणनायकः करतले, का चञ्चला कथ्यताम्, आरोहादवरोहतश्च निपुणैरेकं द्वयोरुत्तरम् ॥
कामेन कामं प्रहिता जवेन प्रावृट् चचाल त्रिजगद् विजेतुम् ।
किं चन्द्रबिम्बं दधि भक्षयत्नी संधारयन्ती हरितः शुभाय ॥
कामेनाकृष्य चापं हतपटुपटहं वल्गुभिर्मारवीरैर् भ्रूभङ्गोत्क्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन ।
सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद् वासवेन ध्यायन्यो योगपीठादचलित इति वः पातु दृष्टो मुनीद्रः ॥
कामेनापि न भेत्तुं किमु हृदयमपारि बालवनितानाम् ।
मूढविशिखप्रहारो- च्छूनमिवाभाति यद्वक्षः ॥
कामेषुणा कामरिपोर्मनोऽपि कल्लोलितं का मनुजेषु वार्ता ।
आषाढवाते चलति द्विपेन्द्रे चूलीवतो वारिधिरेव काष्ठा ॥
कामैस् तैस्तैर् हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥
कामोऽक्षमा दक्षिणतानुकम्पा ह्रीः साध्वसं क्रौर्यमनायैता च ।
दम्भोऽभिमानोऽथ च धार्मिकत्वं दैन्यं स्वयूथस्यविमाननं च ॥
द्रोहो भयं शश्वदुपेक्षणं च शीतोष्णवर्षास्वसहिष्णुता च ।
एतानि काले समुपाहितानि कुर्वन्त्यवश्यं खलु सिद्धिविघ्नम् ॥
कामोत्तप्तं मरकतमहाग्रावहारो गभीरे मग्नं नाभीसरसि हृदयं जग्रसेऽनेकपं मे ।
लिलावेशप्रचलितकरः कोऽप्यहीनारिकेतुस् तद्भङ्गेन प्रतिविधिमिहैवानुरूपं व्यतानीत् ॥
कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारम् ।
दारिद्र्यहतं यौवनम् अबुधानां केवलं विपदे ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0