महासुभाषितसंग्रह · श्लोक 9365-9654
कामानुसारी पुरुषः कामाननु विनश्यति ।
कामान् व्युदस्य धुनुते यत्किञ्चित् पुरुषो रजः ॥
कामान् व्युदस्य धुनुते यत्किंचित् पुरुषो रजः ।
कामक्रोधोद्भवं दुःखम् अह्रीररतिरेव च ॥
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते ।
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥
कामा मनुष्यं प्रसजन्त एव धर्मस्य ये विघ्नमूलं नरेन्द्र ।
पूर्वं नरस्तान् धृतिमान् विनिघ्नन् लोके प्रशंसां लभतेऽनवद्याम् ॥
कामाय स्पृहयत्यात्मा संयतोऽपि मनीषिणः ।
वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति ॥
कामार्तां स्वयमायातां यो न भुङ्क्ते नितम्बिनीम् ।
सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः ॥
कामार्तां स्वस्त्रियं दीनां प्रार्थयन्तीं पुनः पुनः ।
न भजेद् भजमानां यः स वै चाण्डालदर्शनः ॥
कामार्ता घर्मतप्ता वेत्य् अनिश्चयकरं वचः ।
युवानमाकुलीकर्तुम् इति दूत्याह नर्मणा ॥
कामार्थमज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि ।
कामार्थमाशाकृपणस् तपस्वी मृर्त्यु श्रमं चाच्छति जीवलोकः ॥
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।
न हि धर्मादपैत्यर्थः कामो वापि कदाचन ॥
कामाल्लोभाद् भयात् क्रोधात् साक्षिवादात्तथैव च ।
मिथ्या वदति यत्पापं तदसत्यं प्रकीर्तितम् ॥
कामावेशः कैतवस्योपदेशः मायाकोशो वञ्चनासन्निवेशः ।
निर्द्रव्याणामप्रसिद्धप्रवेशो रम्यक्लेशः सुप्रवेशोऽस्तु वेशः ॥
कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम् ।
सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥
कामिनः कृतरतोत्सवकाल- क्षेपमाकृलवधूकरसङ्गि ।
मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत् परिधानम् ॥
कामिनश् चरितैरेभिः कुर्वन्तो निशि जागरम् ।
कुर्वन्त्यप्रियमात्मानं केचिन्मूढाः प्रिया अपि ॥
कामिनां कामिनीनां च सङ्गात् कामी भवेत् पुमान् ।
देहान्तरे ततः क्रोधी लोभी मोही च जायते ॥
कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाग्रैः ।
अक्रियन्त कठिनेषु कथंचित् कामिनीकुचतटेषु पदानि ॥
कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम् ।
उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥
कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः ॥
कामिनीजनविलोचनपाता- नुन्मिषत्कलुषान् प्रतिगृह्णन् ।
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥
कामिनीनयनकज्जलपङ्काद् उत्थितो मदनमत्तवराहः ।
कामिमानसवनान्तरचारी मूलमुत्खनति मानलतायाः ॥
कामिनीवदननिर्जितकान्तिः शोभितुं न हि शशाक शशाङ्कः ।
लज्जयेव विमलं वपुराप्तुं शीधुपूर्णचषकेषु ममज्ज ॥
कामिनीवर्गसंसर्गैर् न कः संक्रान्तपातकः ।
नाश्नाति स्नाति हा मोहात् कामक्षामव्रतं जगत् ॥
कामिनीसहचरस्य कामिनस् तस्य वेश्मसु मृदङ्गनादिषु ।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥
कामिनो हन्त हेमन्तनिशि शीतज्वरातुराः ।
जीवन्ति हरिणाक्षीणां वक्षोजाश्लेषरक्षिताः ॥
कामिन्याः कुचदुर्गपर्वतभुवि त्वं मा मनःपान्थक संचारं कुरु रोमराजिगहने तत्रास्ति नाभ्यां गुहा ।
तल्लीनो मधुसूदनम्य तनयस् तेनात्र चौरेण भो निर्वस्त्रीक्रियते दिवापि हि नरो रात्रौ तु किं कथ्यते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0