भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9615-9634

9615

कामवृत्तस् त्वयं लोकः कृत्स्नः समुपवर्तते ।
यद्वृत्ताः सन्ति राजानस् तद्वृत्ताः सन्ति हि प्रजाः ॥

9616

कामव्याघ्रे कुमतिफणिनि स्वान्तदुर्वारनीडे मायासिंहीविहरणमहीलोभभल्लूकभीमे ।
जन्मारण्ये न भवति रतिः सज्जनानां कदाचित् तत्त्वज्ञानां विषयतुषिताकण्टकाकीर्णपार्श्वे ॥

9617

कामव्याधशराहतिर्न गणिता संजीवनी त्वं स्मृता नो दग्धो विरहानलेन झटिति त्वत्संगमाशाभृतैः ।
नीतोऽयं दिवसो विचित्रलिखितैः सम्कल्परूपैर्मया किं वान्यद् हृदये स्थितासि ननु मे तत्र स्वयं साक्षिणी ॥

9618

कामसङ्गरविधौ मृगीदृशः प्रौढपेषणधरे पयोधरे ।
स्वेदराजिरुदियाय सर्वतः पुष्पवृष्टिरिव पुष्पधन्वनः ॥
कायस् तपस्विषु जयत्यधिकारकामो विश्वस्य चित्तविभुरिन्द्रियवाज्यधीशः ।
भूतानि बिभ्रति महान्त्यपि यस्य शिष्टिं व्यावृत्तमौलिमणिरश्मिभिरुत्तमाङ्गैः ॥

9619

कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते ।
दम्पत्योः सहधर्मेण त्रयीधर्ममवाप्नुयात् ॥

9620

कामस् तु बाणावसरं प्रतीक्ष्य पतङ्गवद् वह्निमुखं विविक्षुः ।
उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥

9621

कामस्य कश्चिच् चतुरः शरांश्चेद् विलङ्घयामास कथंचिदन्यान् ।
उन्मज्जता कोकिलकण्ठयन्त्रात् न पञ्चमास्त्रेण वशीवभूव ॥

9622

कामस्य जेतुकामस्य मिलनाय महीपतेः ।
दिवो मीनं त्विषामीशो द्वारीकर्तुमिवाययौ ॥

9623

कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः ।
नानाविधाश्च लीलाश् चित्तज्ञानं च कान्तानाम् ॥

9624

कामस्यापि निदानमाहुरपरे मायां महाशासनां निश्चित्कां सकलप्रपञ्चरचनाचातुर्यलीलावतीम् ।
यत्सङ्गाद् भगवानपि प्रभवति प्रत्यङ्महामोहहा श्रीरङ्गो भुवनोदयावनलयव्यापारचक्रेऽक्रियः ॥

9625

कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् ।
न हि दुष्टात्मनामार्य मा वसत्यालये चिरम् ॥

9626

कामाग्निः परिवर्धितो विरहिणीश्वासानिलैर्निर्भरं तूर्णं तेन कृशानुना कृशतनुर्मुग्धा न दग्धा कथम् ।
बाला लोलविलोचनाम्बुजगलत्सद्वारिधाराभरैः सिक्ता सम्प्रति तेन जीवसि हरे तां त्वं समुल्लासय ॥

9627

कामतुरो नाधिगच्छेन् महापुरुषकामिनीम् ।
सहस्रयोनिदेहोऽभूद् इन्द्रोऽहल्यापरिग्रहात् ॥

9628

कामात् क्रोधाद् भयादन्यैर् लोभ्य्मानो न लुम्पति ।
यया शक्त्या युतः कार्ये मन्त्रशक्तिस्तु सा स्मृता ॥

9629

कामात् क्लाम्यसि का रीतिर् नारीति नरकाभिधा ।
मलमज्जामयी मांसस्थगी किं न विगीयते ॥

9630

कामात्मता न प्रशस्ता न चैवास्त्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥

9631

कामादित्रिकमेव मूलमखिलक्लेशस्य मायोद्भवं मर्त्यानामिति देवमौलिविलसद्भ्राजिष्णुचूडामणिः ।
श्रीकृष्णो भगवानवोचदखिलप्राणिप्रियो मत्प्रभुर् यस्मात् तत् त्रिकमुद्यतेन मनसा हेयं पुमर्थार्थिना ॥

9632

कामाधिकरणग्राह्यकुलादिबलशालिनः ।
अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ॥

9633

कामानामपि दातारं कर्तारं मानसान्त्वयोः ।
रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ॥

9634

कामानुशासनशते सुतरामधीती सोऽयं रहो नखपदैर्महतु स्तनौ ते ।
रुष्टाद्रिजाचरणकुङ्कुमपङ्कराग संकीर्णशङ्करशशाङ्ककलाङ्क कारैः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc