भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9595-9614

9595

कामघ्नाद् विषमदृशो भूत्यवलिप्ताद् भुजङ्गसङ्गरुचेः ।
को भृङ्गीव न शुष्यति वाञ्छ न फलमीश्वरादगुणात् ॥

9596

कामजं मृगया द्यूतं स्त्रियः पानं तथैव च ।
व्यसनं व्यसनार्थज्ञैश् चतुर्विधमुदाहृतम् ॥

9597

काम जानामि ते मूलं संकल्पात् किल जायसे ।
न त्वां संकल्पयिष्यामि समूलो न भविष्यसि ॥

9598

कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥
कामतन्त्रेषु निपुणः क्रुद्धानुनयकोविदः ।
स्फुरितेऽनादरे किंचिद् दयिताया विरज्यति ॥

9599

कामतो रूपधारित्वं शस्त्रास्त्राश्माम्बुवर्षणम् ।
तमोऽनिलोऽचलो मेधा इति माया ह्यमानुषी ॥

9600

जघान कीचकं भीम आश्रितः स्त्रीसरूपताम् ।
चिरं प्रच्छन्नरूपोऽभूद् दिव्यया मायया नलः ॥

9601

कामदर्पादिशीलानाम् अविचारितकारिणाम् ।
आयुषा सह नश्यन्ति सम्पदो मूढचेतसाम् ॥

9602

कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।
प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥
कामधेनुधरादीनां दातारः सुलभा भुवि ।
दुर्लभः पुरुषो लोके सर्वभूतदयापरः ॥

9603

कामनाम्ना किरातेन वितता मूढचेतसाम् ।
नार्यो नरविहंगानाम् अङ्गबन्धनवागुराः ॥

9604

कामपि धत्ते सूकररूपी कामपि रहितामिच्छति भूपः ।
केनाकारि च मन्मथजननं केन विराजति तरुणीवदनम् ॥

9605

कामपि श्रियमासाद्य यस् तद्वृद्धौ न चेष्टते ।
तस्यायतिषु न श्रेयो बीजभोजिकुटुम्बवत् ॥

9606

कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् ।
निवर्तयेत् तथा क्रोधाद् अनुहादं हतात्मजम् ॥

9607

कामबन्धनमेवैकं नान्यदस्तीह बन्धनम् ।
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥

9608

कामबाणप्रहारेण मूर्च्छितानि पदे पदे ।
जीवन्ति युवचेतांसि युवतीनां स्मितामृतैः ॥

9609

काममस्तु जगत् सर्वं कालस्यास्य वशंवदम् ।
कालकालप्रपन्नानां कालः किं नः करिष्यति ॥

9610

काममा मरणात् तिष्ठेद् गृहे कन्यर्तुमत्यपि ।
न चैवैनां प्रयच्छेत गुणहीनाय कर्हिचित् ॥

9611

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद् गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥

9612

कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च ।
कर्षयन्त्योऽपि सर्वार्थाञ् ज्ञायन्ते नैव योषितः ॥

9613

कामयेत न हि क्षुद्रम् अर्थं जातु महामनाः ।
वर्धयेत स्वमौदार्यं प्रभावं च यशो भुवि ॥

9614

कामवर्षी च पर्जन्यो नित्यं सस्यवती मही ।
गावश्च घटदोहिन्यः पादपाश्च सदाफलाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc