महासुभाषितसंग्रह · श्लोक 9575-9594
एतेषां विजयं कृत्वा कार्यो भृत्यजयस् ततः ।
कृत्वा भृत्यजयं राजा पौराञ्जनपदाञ्जयेत् ॥
कामः सर्वात्मना हेयः स चेद्धातुं न शक्यते ।
स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥
... ... ... ... ।
काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥
काम एष महाशत्रुस् तमेकं निर्जयेद् दृढम् ।
जितकामा महात्मानस् तैर्जितं निखिलं जगत् ॥
कामकारो महाप्राज्ञ गुरूणां सर्वदानघ ।
उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥
कामकार्मुकतया कथयन्ति भ्रूलतां मम पुनर्मतमन्यत् ।
लोचनाम्बुरुहयोरुपरिस्थं भृङ्गशावकततिद्वयमेतत् ॥
कामक्रोधं तथा लोभं स्वादु शृङ्गारकौतुके ।
अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।
कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर ॥
कामक्रोधभयादन्यैर् लोभ्यमानो न लुभ्यति ।
यया शक्त्या युतः कार्ये मन्त्रशक्तिस्तु सा स्मृता ॥
कामक्रोधमदोन्मत्ताः स्त्रीणां ये वशवर्तिनः ।
न ते जलेन शुध्यन्ति स्नानतीर्थशतैरपि ॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वतैते विदितात्मनाम् ॥
कामक्रोधस् तथा मोहो लोभो मानो मदस् तथा ।
षड्वर्गमुत्सृजेदेनम् अस्मिंस्त्यक्ते सुखी नृपः ॥
कामक्रोधादयः सर्वे मतिरक्षाण्यहंकृतिः ।
गुणा विविधकर्माणि विलीयन्ते मनःक्षयात् ॥
कामक्रोधादिभिस्तापैस् ताप्यमानो दिवानिशम् ।
आत्मा शरीरान्तस्थोसौ पच्यते पुटपाकवत् ॥
कामक्रोधानृतद्रोहलोभमोहमदादयः ।
नमन्ति यत्र राजेन्द्र तमेव ब्राह्मणं विदुः ॥
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥
कामक्रोधावनिर्जित्य किमरण्ये करिष्यति ।
अथवा निर्जितावेतौ किमरण्ये करिष्यति ॥
कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति ।
प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥
कामक्रोधौ द्वयमपि पदं प्रत्यनीकं वशित्वे हत्वानङ्गं किमिव हि रुषा साधितं त्र्यम्बकेण ।
यस् तु क्षान्त्या शमयति शतं मन्मथाद्यानरातीन् कल्याणं वो दिशतु स मुनिग्रामणीरर्कबन्धुः ॥
कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति ।
न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ॥
कामक्रोधौ मद्यतमौ नियोक्तव्यौ यथोचितम् ।
कामः प्रजापालने च क्रोधः शत्रुनिबर्हणे ॥
कामक्रोधौ विनिर्जित्य किमरण्यैः करिष्यति ।
अन्नेन धार्यंते देहः कुलं शीलेन धार्यते ॥
कामक्रोधौ हि पुरुषम् अर्थेभ्यो व्यपकर्षतः ।
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0