महासुभाषितसंग्रह · श्लोक 9555-9574
कामं वनेषु हरिणास् तृणेन जीवन्त्ययत्नसुलभेन ।
विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः ॥
कामं वपुः पुलकितं नयने धृतास्रे वाचः सगद्गदपदाः सखि कम्पि वक्षः ।
ज्ञातं मुकुन्दमुरलीरवमाधुरी ते चेतः सुधांशुवदने तरलीकरोति ॥
कामं वाचः कतिचिदफलाः सन्तु लोके कवीनां सन्त्येवान्या मधुरिपुकथासंस्तवात् कामदोग्ध्र्यः ।
वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः ॥
कामं विषं च विषयाश्च निरीक्ष्यमाणाः श्रेयो विषं न विषयाः परिसेव्यमानाः ।
एकत्र जन्मनि विषं विनिहन्ति पीतं जन्मान्तरेषु विषयाः परितापयन्ति ॥
कामं शिवेन शमितं पुनरुज्जगार दृष्टिस् तवेति किमियं जननि स्तुतिस्ते ।
लीलाप्रसूतपुरुषार्थचतुष्टयायास् तस्याः परं तु स भवत्यवयुक्त्यवादः ॥
कामं शीर्णपलाशपत्ररचितां कन्थां वसानो वने कुर्यामम्बुभिरप्ययाचितसुखैः प्राणानुबन्धस्थितिम् ।
साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्वहमुत्सहे सकृपणं देहीति दीनं वचः ॥
कामं शुनको नृपति- प्रसादतः स्याद् गजेन्द्रमौलिस्थः ।
भवतेव तेन सह रे नार्दयितुं शक्यते जातु ॥
कामं श्यामतनुस् तथा मलिनयत्यावासवस्त्रादिकं लोकं रोदयते भनक्ति जनतागोष्ठीं क्षणेनापि यः ।
मार्गेऽप्यङ्गुलिलग्न एव भवतः स्वाभाविनः श्रेयसे हा स्वाहाप्रिय धूममङ्गजमिमं सूत्वा न किं लज्जितः ॥
कामं सन्तु सहस्रशः कतिपये सारस्यधौरेयकाः कामं वा कमनीयतापरिमलस्वाराज्यबद्धव्रताः ।
नैवैवं विवदामहे न च वयं देव प्रियं ब्रूमहे यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता ॥
कामं सर्वोऽप्यलंकारो रसमर्थे निषिञ्चति ।
तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥
कामं सुधाकरकरामृतदिव्यरूप- सौधाग्रपीठवसतिः सुखमस्तु काकः ।
श्रीसुन्दरीरमणसङ्गमकण्ठलग्न- पूर्यत्सुधामणितजित् किमसौ कपोतः ॥
कामं स्त्रियो निषेवेत पानं वा साधु मात्रया ।
न द्यूतमृगये विद्वान् अत्यन्तव्यसने हि ते ॥
कामं हरिर्भव विमूढ भवाथ चन्द्रश् चन्द्रार्धमौलिरथ वा हर एव भूयाः ।
विद्याप्रणाशपरिवर्धितघोरदीप्तेः क्रोधानलस्य मम नेन्धनतां प्रयासि ॥
कामः कमनीयतया किमपि निकामं करोति संमोहम् ।
विषमिव विषमं सहसा मधुरतया जीवनं हरति ॥
कामः कामं कमलवदनानेत्रपर्यन्तवासी दासीभूतत्रिभुवनजनः प्रीतये जायतां वः ।
दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहार्हा यस्याधिक्यं रुचिरतितरामञ्जनस्येव याता ॥
कामः कुप्यति चन्द्रमा अपि बलान्मां दग्धुमभ्युद्यतो वाता वापि समागता यमदिशः प्राणान् निहर्न्तु तथा ।
रक्ताक्षास्त्वरयन्ति तान् परभृताः स्वैः कूजनैर्दूति तत् प्रेयांसं तमुपानयाश्वितरथा त्राणं न मे कुत्रचित् ॥
कामः क्रोधश्च लोभश्च देहे तिष्ठन्ति तस्कराः ।
ज्ञातरत्नमपाहारि तस्माज् जाग्रत जाग्रत ॥
कामः क्रोधश्च लोभश्च मानो हर्षो मदस् तथा ।
एते हि षड् विजेतव्या नित्यं स्वं देहमाश्रिताः ॥
कामः क्रोधश्च लोभश्च मदो मानस् तथैव च ।
हर्षश्च शत्रवो ह्येते नाशाय कुमहीभृताम् ॥
कामः क्रोधश्च लोभश्च मोहो हर्षो मदस्तथा ।
षड्वर्गमुत्सृजेदेनं यस्मिंस्त्यक्ते सुखी नृपः ॥
कामः क्रोधस् तथा मोहस् त्रयोऽप्येते महाद्विषः ।
एते न निर्जिता यावत् तावत् सौख्यं कुतो नृणाम् ॥
कामः क्रोधस् तथा लोभो देहे तिष्ठन्ति तस्कराः ।
ते मुष्णन्ति जगत् सर्वं तस्माज्जाग्रत जाग्रत ॥
कामः क्रोधस् तथा लोभो रागो द्वेषश्च मत्सरः ।
मदो माया तथा मोहः कन्दर्पो दर्प एव च ॥
एते हि रिपवो घोरा धर्मसर्वस्वहारिणः ।
एतैर्बम्भ्रम्यते जीवः संसारे बहुदुःखदे ॥
कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा ।
षड्वर्गमुत्सृजेदेनं तस्मिंस् त्यक्ते सुखी नृपः ॥
कामः क्रोधो मदो मानो लोभो हर्षस् तथैव च ।
एते वर्ज्याः प्रयत्नेन सादरं पृथिवीक्षिता ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0