भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9535-9554

9535

कामं दहन्तु मरुतो मलयाचलस्य चन्द्रोऽपि पातयतु वा नितरां स्फुलिङ्गान् ।
दूरे प्रियो विमलवंशमणिः पतिर्मे तत्साम्प्रतं त्वरितमानय तं कथंचित् ॥

9536

कामं दीर्घा भवेद् यात्रा कामं पन्था महान् भवेत् ।
सोऽपि प्रभोः कृपामेव नित्यमाश्रयतेऽन्ततः ॥

9537

कामं दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुष्कृतं या हिनस्ति ।
तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥

9538

कामं दुर्विषहज्वरं जनयति व्याघूर्णयत्पक्षिणी गात्राण्यूरुनितम्बगण्डहृदयान्युच्छूनय् अत्युल्बणम् ।
तां तां दुर्विकृतं करोति सुहृदो गाढं व्यथन्ते यया व्याधियौवनमात्मनाशनियतः के ते ग्रहण्यादयः ॥

9539

कामं दृष्टा मया सर्वा विवस्त्रा रावणस्त्रियः ।
न तु मे मनसः किंचिद् वैकृत्यमुपपद्यते ॥

9540

मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने ।
शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥

9541

कामं न पश्यति दिदृक्षत एव भूम्ना नोक्तापि जल्पति विवक्षति चादरेण ।
लज्जास्मरव्यतिकरेण मनोऽधिनाथे बाला रसान्तरमिदं ललितं बिभर्ति ॥

9542

कामं निष्करुणं वेत्सि वेत्सि तं बहुवल्लभम् ।
दूति चूताङ्कुरखरा दिशो वेत्सि न वेत्सि किम् ॥

9543

कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चान्द्रमसैव रात्रिः ॥
कामं परमिति ज्ञात्वा देवोऽपि हि पुरन्दरः ।
गौतमस्य मुनेः पत्नीम् अहल्यां चकमे पुरा ॥

9544

कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस् तनयान् ।
बलवत् तु दूयमानं प्रत्याययतीव मे हृदयम् ॥

9545

कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च ।
ऊर्जं करोति कफजाश्च निहन्ति रोगांस् ताम्बूलमेवमपरांश्च गुणान् करोति ॥

9546

युक्तेन चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम् ।
चूर्णाधिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम् ॥

9547

पत्राधिकम् निशि हितं सफलं दिवा च प्रोक्तान्यथाकरणमस्य विडम्बनैव ।
कक्कोलपूगलवलीफलपारिजातैर् आमोदितं मदमुदा मुदितं करोति ॥

9548

कामं प्रदोषतिमिरेण न दृश्यसे त्वं सौदामिनीव जलदोदरसंधिलीना ।
त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु मुखराणि च नूपुराणि ॥

9549

कामं प्रियानपि प्राणान् विमुञ्चन्ति मनस्विनः ।
इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥

9550

कामं प्रिया न सुलभा मनस् तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥

9551

कामं भवन्तु मधुलम्पटषट्पदौघ- संघट्टधुन्धुमघनध्वनयोऽब्जखण्डाः ।
गायत्यतिश्रुतिसुखं विधिरेव यत्र भृङ्गः स कोऽपि धरणीधरनाभिपद्मः ॥

9552

कामं भवन्तु सरितो भुवि सुप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च शुक्तयश्च ।
एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः ॥

9553

कामं मा कामयध्वं वृषमपि च भृशं माद्रियध्वं न वित्ते चित्तं दत्त श्रयध्वं परममृतफला या कला तामिहैकाम् ।
इत्थं देवः स्मरारिर्वूषमधरचरीकृत्य मूर्त्यैव दित्सन् निःस्वो विश्वोपदेशानमृतकरकलाशेखरस्त्रायतां वः ॥

9554

कामं लिखतु संस्थानं कश्चिद् रूपं च भास्वतः ।
अभित्तिविहतालम्बम् आलोकं विलिखेत् कथम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc