महासुभाषितसंग्रह · श्लोक 9515-9534
काप्यागतं वीक्ष्य मनोधिनाथं समुत्थिता सादरमासनाय ।
करेण शिञ्जद्वलयेन तल्पम् आस्फालयन्ती कलमाजुहाव ॥
का प्रस्तुताभिषेकाद् आर्यं प्रच्यावयेद् गुणज्येष्ठम् ।
मन्ये ममैव पुण्यैः सेवावसरः कृतो विधिना ॥
का प्रियेण रहिता वराङ्गना धाम्नि केन तनयेन नन्दिता ।
कीदृशेन पुरुषेण पक्षिणां बन्धनं समभिलष्यते सदा ॥
का प्रीतिः सह मार्जारैः का प्रीतिरवनीपतौ ।
गणिकाभिश्च का प्रीतिः का प्रीतिर्भिक्षुकैः सह ॥
काभिर्न तत्राभिनवस्मराज्ञा विश्वासनिक्षेपवणिक् क्रियेऽहम् ।
जिह्नेति यन्नैव कुतोऽपि तिर्यक् कश्चित् तिरश्चस्त्रपते न तेन ॥
का भूषा बलिनां, क्षमा, परिभवः, कोपः स्वकुल्यैः कृतः किं दुःखं, परसंश्रयो, जगति कः श्लाघ्यो, य आश्रीयते ।
को मृत्यु, र्व्यसनं, शुचं जहति के, यैर्निर्जिता शत्रवः कैर्विज्ञातमिदं विराटनगरच्छन्नस्थितैः पाण्डवैः ॥
कामं करीषाग्निमधो निधाया- भ्रमेण तापातिशयं भजध्वम् ।
युष्माकमद्यावधि नाधिकारो दुग्धातिमुग्धाधरमाधुरीषु ॥
कामं कर्णकटुः कृतोऽतिमधुरः केकारवः केकिनां मेघाश्चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिनः ।
उन्मीलन्नवकन्दलावलिरसौ शय्यापि सर्पायते तत् किं यद् विपरीतमत्र न कृतं तस्या वियोगेन मे ॥
कामं कामदुघं धुङ्क्ष्व मित्राय वरुणाय च ।
वयं धीरेण दानेन सर्वान् कामानशीमहि ॥
कामं कामयते न केलिनलिनीं नामोदते कौमुदी- निस्यन्दैर्न समीहते मृगदृशामालापलीलामपि ।
सीदन्नेष निशासु दुःसहतनुर्भोगाभिलाषालसैर् अङ्गैस्ताम्यति चेतसि व्रजवधूमाधाय मुग्धो हरिः ॥
कामं कामयमानस्य यदा कामः समृद्ध्यते ।
अथैनमपरः कामस् तृष्णा विध्यति बाणवत् ॥
कामं कामसमस् त्वमत्र जगति ख्यातोऽसि यत् सर्वदा रूपेणैव महीपते तव धनुःपाण्डित्यमन्यादृशम् ।
त्वं यस्मिन् विशिखं विमुञ्चसि तमेवोद्दिश्य मुक्तत्रपं त्रुट्यत्कंचुकमुद्गतस्पृहमहो धावन्ति देवाङ्गनाः ॥
कामं कुमीनसदृशं राज्यमपि प्राज्यकण्टकं कुशलः ।
पाकान्वितमतिसुरसं भुङ्क्ते बहुधावधानेन ॥
कामं कूले नदीनामनुगिरि महिषीयूथनीडोपकण्ठे गाहन्ते शष्पराजीरभिनवशलभग्रासलोला बलाकाः ।
अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित् कापोतं कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे ॥
कामं कोपकषायिताक्षियुगलं कृत्वा करोत्फालनैः क्षुद्रान् वन्यमृगात् करीन्द्र सहसा विद्रावय त्वं मुदा ।
हेलाखण्डितकुम्भिकुम्भविगलद्रक्तारुणाङ्गे हरौ जाते लोचनगोचरे यदि भवान् स्थाता तदा मन्महे ॥
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः ।
सम्यग्विजेतुं यो वेद स महीमभिजायते ॥
कामं क्रोधं भयं लोभं दम्भं मोहं मदं तथा ।
निद्रां मत्सरमालस्यं नास्तिक्यं च परित्यज ॥
कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं पश्य हि कोऽहम्
आत्मज्ञानविहीना मूढास् ते पच्यन्ते नरके मूढाः ॥
कामं गुणैर्महानेष प्रकृत्या पुनरासुरः ।
उत्कर्षात् सर्वतो वृत्तेः सर्वाकारं हि दृप्यति ॥
कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे ।
साधनकथनावसरे साचीकुर्वन्ति वक्त्राणि ॥
कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0