भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9495-9514

9495

कान्ते स्नेहनिधौ समीयुषि मधौ जित्वा श्रियं शैशिरीं विश्लेषादिव तस्य पाण्डिमभृतामालीलतानामियम् ।
कर्तुं नूतनचित्रपत्ररचनां किं काननश्रीरिमां प्राचीनां पवनाञ्चलेन परितः पत्रावलीं लुम्पति ॥

9496

कान्ते हन्त सुकोमला बत मता प्राग् व्यर्थमेव भ्रमात् किंतु त्वं भुवि निष्ठुरा निरुपमा पश्यस्यपीमं न माम् ।
तस्माद् वक्षसि ते पयोधरमिषाद् धात्रा निखायार्पितौ शैलेन्द्राविति सांप्रतं न हि चिरं सौख्यं परक्लेशितुः ॥

9497

कान्तो नर्मणि नैपुणेन विदितस्त्वं शैशवद्वेषिणी क्रीडाशैलशिरोमणिर्गृहमिदं रम्यो वसन्तोत्सवः ।
सख्यः कामकथोपचारचतुराः संभोगकालेऽधुना मानो वा कलहोऽथवा यदि कदा तच्चेतसो निर्वृतिः ॥

9498

कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोकानन्दकरो हि चन्द्रवदने वैरायते चन्द्रमाः ।
किं चायं वितनोति कोकिलकलालापो विलापोदयं प्राणानेव हरन्ति हन्त नितरामाराममन्दानिलाः ॥

9499

कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि किं चासि पञ्चशरकार्मुकमद्वितीयम् ।
इक्षो तवास्ति सकलं परमेकमूनं यत् सेवितो भजसि नीरसतां क्रमेण ॥

9500

कान्त्या काञ्चनकान्तया परिमलैर्भाग्यैकभोग्यैस् तथा सौन्दर्येण च साधुनैव कुसुमं हा हन्त न त्वत्समम् ।
अक्रोधं शृणु किन्तु दूषणमिव त्वय्यस्ति किञ्चित् पुनस् तत्त्वज्ञैर्यदचुम्बितं त्वमसि रे चाम्पेय पुष्पन्धयैः ॥

9501

कान्त्या दरिद्रत्वमुपैति चन्द्रः किमस्ति तत्त्वं विकचोत्पलेषु ।
न वेद्यि विश्वास्य कथं मृगाक्ष्या सौन्दर्यसृष्टिर्मुषिता विधातुः ॥

9502

कान्त्या विलुप्तानि विलोचनानाम् आपाटलानामतिरोदनेन ।
सकुङ्कुमानीव पुनर्भंवन्ति यस्यारिनारीकुचमण्डलानि ॥

9503

कान्त्या सुवर्णवरया परया च शुद्ध्या नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् ।
चेतोहरामपि कृशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह ॥

9504

कान्यकुब्जा द्विजाः सर्वे मागधं माधुरं विना ।
गौडद्राविडविख्याताः कान्यकुब्जाः महोद्भवाः ॥

9505

का पाण्डुपत्नी गृहभूषणं किं को रामशत्रुः किमगस्त्यजन्म ।
कः सूर्यपुत्रो विपरीतपृच्छा कुन्तीसुतो रावणकुम्भकर्णाः ॥

9506

कापि कान्तमिदमाह महेला साधु साधय तथा युधि कार्यम् ।
वर्तते तव यथा च जयश्रीर् लोकनाथललना च सपत्नी ॥

9507

कापि कुड्यलिखितावधिरेखाः प्रोषितप्रियतमा गणयन्ती ।
वेश्मनि प्रबलवह्निपरीते सास्रया बहिरनीयत सख्या ॥

9508

कापि मुख्यपदवीमधिरोप्य स्वां सखीं स्वकरधारितदीपा ।
प्राणनाथरतिगेहमयासीद् अद्भुतो रतिपतेरुपदेशः ॥

9509

कापिशायनसुगन्धि विघूर्णन्न् उन्मदोऽधिशयितुं समशेत ।
फुल्लदृष्टिवदनं प्रमदानाम् अब्जचारु चषकं च शडङ्घ्रिः ॥

9510

कापि शीघ्रमवधीरितमाना मानिनो विचलिता प्रियधाम्नि ।
आगतेन मरुतापि पुरस्ताल् लाघवस्य परिहारममंस्त ॥

9511

कापुरुषः कुक्कुरश्च भोजनैकपरायणः ।
लालितः पार्श्वमायाति वारितो नैव गच्छति ॥

9512

काप्यङ्घ्री रङ्गपत्र्यारुणयति रमणी भूषणैर्भाति काचिद् गायत्यन्या परापि प्रलसति लहरीलक्ष्म वासो वसाना ।
यत्रान्या स्नेहपूरान् वितरति च मुदं याति दोलाभिरन्या सा शृङ्गारद्वितीया रचयति न मनः कस्य शृङ्गारमग्नम् ॥

9513

काप्यन्या मुकुलाधिकारमिलिता लक्ष्मीरशोकद्रुमे माकन्दः समयोचितेन विधिना धत्तेऽभिजातं वपुः ।
किं चाषाढगिरेरनङ्गविजयप्रस्तावनापण्डित ः स्वैरं सर्पति बालचन्दनलतालीलासखो मारुतः ॥

9514

काप्यभिख्या तयोरासीद् व्रजतो शुद्धवेषयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc