भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9475-9494

9475

कान्ते कलितचोलान्ते दीपे वैरिणि दीप्यति ।
आसीदसितपद्माक्ष्याः पक्षो नयनमुद्रणम् ॥

9476

कान्ते काञ्चुलिकावलोकिनि कलावत्या नमन्त्या स्थितं तस्मिन् कोमलकाकुभाषिणि तया स्पन्दी निरुद्धोऽधरः ।
उत्थायाथ करस्पृशि प्रियतमे यूनोर्नवे संगमे काञ्चीकूजितकैतवेन मदनो द्यौःशान्तिमभ्यस्यति ॥
कान्ते कथय कथं वा गच्छसि पानीयशालिकामेका ।
अङ्गमनङ्गं नितराम् अङ्कुरयति पङ्कजाक्षि वयोऽपि तव ॥

9477

कान्ते किं कुपितासि, कः परजने प्राणेश कोपो भवेत् कोऽयं सुभ्रु पर, स्त्वमेव, दयिते दासोऽस्मि किं ते परः ।
इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ॥

9478

कान्ते कुटिलमालोक्य कर्णकण्डूयनेन किम् ।
कामं कथय कल्याणि किङ्करः करवाणि यत् ॥

9479

कान्ते गृहाण त्वमिमां स्वमालाम् अकारणं किं कलहं करोषि ।
यत्पूर्वपादं मनुषेऽत्र शुद्धं तत् तथ्यमेवास्ति न चेदिदं स्यात् ॥

9480

कान्ते घोरकृतान्तवक्रकुहरात् त्वं पुण्यपुञ्जेन मे मुक्ता कृन्त तदर्जनश्रमभरं प्रत्यङ्गमालिङ्ग्य माम् ।
इत्याकर्ण्य निमीलितार्धनयनं स्मेरं शनैरानतं सोल्लासं वदनाम्बुजं मृगदृशः स्वैरं चुचुम्ब प्रियः ॥

9481

कान्ते जग्मुषि ताम्रचूडरटितं श्रुत्वा प्रबुद्धा जवात् किंचिद् वासवदिङ्मुखं प्रविकसद् दृष्ट्वा गवाक्षाध्वना ।
संत्रासेन समीरिता प्रियतमप्रेम्णावरुद्धा शनैर् उत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला ॥

9482

कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथा स्यात् ॥

9483

कान्ते तल्पमुपागते विगलिता नीवी स्वयं तत्क्षणात् तद्वासः श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत् सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं तु किं कथमिति स्वल्पापि मे न स्मृतिः ॥

9484

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्- पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपुत्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥
कान्ते त्वत्कुचचूचुकौ तदुपरि स्मेरा च हारावली तद्वक्त्रं तरुणाङ्गि बिम्बितमनुच्छायालताश्यामताम् ।
त्वं सर्वाङ्गमनोरमे त्रिजगतां बध्नासि दृष्ट्या मनो जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥

9485

कान्ते त्वन्नेत्रकान्तं पुरु कमलवनं त्वन्मुखस्योपमेयश् चन्द्रः प्रत्यक्षसिद्धः पिककुलमपि च त्वत्स्वरस्यानुकारि ।
रम्भाकाण्डस् त्वदूरुच्छविरपि सुलभः कम्बवश्च त्वदीयाः कण्ठाकारा शिखण्डास् तव कचसदृशास्तत् कथं तेऽसमत्वम् ॥

9486

कान्ते धावय मे पादाव् इति भर्त्रा निवेदिता ।
न तया धावितौ पादौ भर्तुराज्ञा न लङ्घिता ॥

9487

कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश् चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना ।
आमृष्टो मुहुरीक्षितो मुहरभिघ्रातो मुहुर्लोठितः प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः ॥

9488

कान्ते नितान्तं दयिताकुचान्त- चोलाञ्चलं कर्षति हर्षमुग्धे ।
बभार बाला नमितास्यहास्य- लेशापदेशादपरं निचोलम् ॥

9489

कान्ते नितान्तमेतैर् वचनै रुषितेव लक्ष्यते भवती ।
क इवोष्यते न वचनैर् उक्तैरागांस्यपह्नोतुम् ॥
कान्ते कृतागसि पुरः परिवर्तमाने सख्यं सरोजशशिनोः सहसा बभूव ।
रोषाक्षरं सुदृशि वक्तुमपारयन्त्याम् इन्दीवरद्वयमवाप तुषारधाराम् ॥
कान्ते पश्यति सानुरागमबला साचीकरोत्याननं तस्मिन् कामकलाकलापकुशले व्यावृत्तवक्त्रे किल ।
पश्यन्ती मुहुरन्तरङ्गमदना दोलायमानेक्षणा लज्जामन्मथमध्यगापि नितरां तस्याभवत् प्रीतये ॥

9490

कान्ते यामि, क्व, देशान्तर, मपि शयना, न्नेति, किं सद्मनोऽपि क्वैतावन्मात्र, माः किं कथयसि नगरा, न्न प्रिये निर्वृतोऽपि ।
इत्याकर्ण्योक्तवस्तुक्रमघनघनहृद्वेदना वेद नाहं काहं कुत्रास्मि कोऽयं बत हतसमयोऽप्यस्मि वा नास्मि वेति ॥

9491

कान्ते विचित्रसुरतक्रमबद्धरागे सङ्केतकेऽपि मृगशाबदृशा रसेन ।
तत्कूजितं किमपि येन तदीयतल्पं नाल्पैः परीतमनुकूजितलावकौघैः ॥

9492

कान्ते विलासिनि कलावति पद्मनेत्रे नित्यं त्वयि प्रियतमे रमते मनो मे ।
इत्थं भवन्तमुरुभावनया वदन्तं श्रीकृष्ण मां बुधजना अपि हा हसन्ति ॥

9493

कान्ते सागसि कञ्चुकस्पृशि तया साचीकृतग्रीवया मुक्ताः कोपकषायमन्मथशरत्क्रूराः कटाक्षाङ्कुराः ।
साकूतं दरहासकेसरवचोमाध्वीकधारालसा प्रीतिः कल्पलतेव काचन महादानीकृता सुभ्रुवा ॥
कान्ते सागसि काचिदन्तिकगते निर्भर्त्स्य रोषारुणैर् भ्रूभङ्गीकृटिलैरपाङ्गवलनैरालोकमान् आ मुहुः ।
बध्वा मेखलया सपत्नरमणीपादाब्जलाक्षाङ्कितं लीलानीलसरोरुहेण निटिलं हन्ति स्म रोषाकुला ॥

9494

कान्ते सागसि यापिते प्रियसखीवेषं विधायागते भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्संगमाकाङ्क्षया ।
मुग्धे दुष्करमेतदित्यतितरामुक्त्वा सहासं बलाद् आलिङ्ग्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc