महासुभाषितसंग्रह · श्लोक 9415-9434
कान्तप्रकर्षं दशनच्छदेन सन्ध्याघने बद्धपदं हरन्त्याः ।
तस्या गृहोद्यानसरोगतस्य हस्तस्य एवाम्बुरुहस्य रागः ॥
कान्तर्मूर्ध्नि दधती विधित्सया तन्मणेः श्रवणपूरमुत्पलम् ।
रन्तुमर्चनमिवाचरत् पुरः सा स्ववल्लभतनो मनोभुवः ॥
कान्तया कान्तसंयोगे किमकारि नवोढया ।
अत्रापि चोत्तरं वक्तुम् अवधिर्ब्रह्मणो वयः ॥
कान्तयानुगतः कोऽयं पीनस्कन्धो मदोद्धतः ।
मृगाणां पृष्ठतो याति शम्बरो रूढयौवनः ॥
कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
संहतस्तनतिरस्कृतदृष्टिर् भ्रष्टमेव न दुकूलमपश्यत् ॥
कान्तवेश्म बहु संदिशतीभिर् यातमेव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥
कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।
मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥
कान्तस्ते कमलाभिरामनयने कल्पे हि देशान्तरं गन्तेति श्रुतमद्य लोकवचनात् तथ्यं किमेतद् वचः ।
पृष्टा सेति मया दयाधननिधे प्रोवाच दीनानना यत् तद् वक्तुमपि क्षमा न रसना मे जायते साम्प्रतम् ॥
कान्तां कामपि कामयत्यनुदिनं ध्यानापदेशादयं येनामुं मुनयोऽप्यनादिनिधनं ध्यायन्ति धौतस्पृहाः ।
इत्यङ्कात् स्वकरे हृते गिरिजया पादे च पद्मासनाद् विश्वं पातु पुरन्ध्रिनद्धवपुषः शम्भोः समाधिव्ययः ॥
कान्तां क्वापि विलम्बिनीं कलरुतैराहूय भूयस् ततो दिग्भागानवलोक्य रङ्गवसुधामुत्सृज्य पद्भ्यां ततः ।
एष स्फारमृदङ्गनादमधुरैरम्भोमुचामारवैर् बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति ॥
कान्तां दृष्ट्वा चरणयुगलक्षालनाय प्रवृत्ताम् अस्मिन् राष्ट्रे श्रियमिति वचः पापठीति प्रयत्नात् ।
देवस्य त्वेति च पुनरसौ वीटिकायाः प्रदाने जामाता ते जडमतिरयं छान्दसः किं करोमि ॥
कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं मामुल्लङ्घ्य व्रजतु पथिकः कोऽपि यद्यस्ति शक्तिः ।
इत्याशोकी जगति सकले वल्लरी चोरिकेव प्राप्तारम्मे कुसुमसमये कामदेवेन दत्ता ॥
कान्ताः किं न शशाङ्ककान्तिधवलाः सौधालयाः कस्यचित् काञ्चीदामविराजितोरुजघना सेव्या न किं कामिनी ।
किं वा श्रोत्ररसायनं सुखकरं श्रव्यं न गीतादिकं विश्वं किन्तु विलोक्य मारुतचलं सन्तस्तपः कुर्वते ॥
कान्ताकटाक्षवपुषे नमः कुसुमधन्वने ।
जायते येन सच्छायो विरसोऽपि भवद्रुमः ॥
कान्ताकटाक्षविशिखा न खनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः ।
कर्षन्ति भूरिविषयाश्च न लोभपाशा लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥
कान्ता कर्षणलोलकेरलवधूधम्मिल्लमल्लीरजश्- चौराश्चोडनितम्बिनीस्तनतटे निष्पन्दतामागताः ।
रेवाशीकरधारिणोऽन्ध्रमुरलस्त्रीमानमुद्राभि दो वाता वान्ति नवीनकोकिलवघूहूंकारवाचालिताः ॥
कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित् प्रभूणाम् अत्यानन्दं जनयतु फलैः कोऽपि लोकान् धिनोतु ।
धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥
कान्ताकेलिमयोपि भूतकरुणाशान्तोऽप्यसौ संयमी क्रीडारूढसमाधिभङ्गविकटभ्रूभङ्गभीमाननः ।
दृष्ट्वाकृष्टशरासनं यदकरोत् क्रुद्धः पिनाकी स्मरं त्वामप्यद्य दृशा तदेव कुरुते क्रोधादयं कौशिकः ॥
कान्ता चन्द्रोदयो वीणापञ्चमध्वनिरित्यमी ।
ये नन्दयन्ति सुखितान् दुःखितान् व्यथयन्ति ते ॥
कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् ।
हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकार रजनीपरिवृत्तिवायुः ॥
कान्ताजनेन रहसि प्रसभं गृहीत- केशे रते स्मरसहासवतोषितेन ।
प्रेम्णा मनस्सु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोषितेन ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0