महासुभाषितसंग्रह · श्लोक 9395-9414
का दुर्दशा कुपितनिर्दयचित्रगुप्त- वित्रासितस्य जगतो यदि देवि न स्याः ।
त्वं कर्मबन्धनविमोचनधर्मराज- लेखाधिकारपरिशोधनजातपत्री ॥
का द्यौः, किं बलसद्म, का वसुमती, स्यात् सर्वमेतद् यदि प्रत्यक्षं न भवेत् कदाचिदपि किं ते सर्वसन्दर्शिनः ।
भ्राम्यन्तः प्रलपन्तु नाम विदितं मण्डूक सम्यक् त्वया मुक्त्वेमं परमं कुकूपमितरत् किं नाम संभाव्यते ॥
कानने सरिदुद्देशे गिरीणामपि कन्दरे ।
पश्यन्त्यन्तकसंकाशं त्वामेकं रिपवः पुरः ॥
का नाम बुद्धिहीनस्य विधेरविदग्धता ।
कूष्माण्डानां न यश्चक्रे तैलमूर्णां च दन्तिनाम्
कानि स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशाः किं वा शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः ।
चण्डज्वालावलीढस्फुटिततरुलताग्रन्थिमुक्ताट्टहासो दावाग्निः शुष्कवृक्षे शिखरिणि गहनेऽधिष्ठितः पश्यतीव ॥
कानीनस् तु पितामहः समभवत् पित्रादयो गोलकास् तत्पुत्राश्च युधिष्ठिरप्रभृतयः कुण्डा ह्यमी पाण्डवाः ।
पञ्चानां द्रुपदात्मजा सहचरी युद्धे हता बान्धवा श्रीकृष्णेन कुलं कलङ्कनिचितं नीतं जगद्वन्दितम् ॥
कानीनस्य मुनेः स्वबान्धववधूवैधव्यविध्वंसिनो नप्तारः खलु गोलकस्य तनयाः कुण्डाः स्वयं पाण्डवाः ।
तेऽमी पञ्च समानयोनिरतयस् तेषां गुणोत्कीर्तनाद् अक्षय्यं सुकृतं भवेदविकलं, धर्मस्य सूक्ष्मा गतिः ॥
कान्तं कन्दर्पपुष्पं स्तनतटशशिनं रागवृक्षप्रवालं शय्यायुद्धाभिघातं सुरतरथरणश्रान्तधुर्यप्रतोमद् ।
उन्मेषं विम्रमाणां करजपदमयं गुह्यसम्भोगचिह्नं रागाक्रान्ता वहन्तां जघननिपतितं कर्कशाः स्त्रीकिशोर्यः ॥
कान्तं खलगिरा काव्यं लभते भूयसीं रुचम् ।
स्पृष्टं च दंष्ट्त्रया हृद्यं यथा हेमविभूषणम् ॥
कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशं मुक्तास्तया परभिया परुषा न वाचः ।
दूतीमुखे मृगदृशा स्खलदम्बुपूरा दूरात्परं निदधिरे नयनान्तपाताः ॥
कान्तं रूपं यौवनं चारुलीलं दानं दाक्षिप्यं वाक् च सामोपपन्ना ।
यं प्राप्यैते सद्गुणाः भान्ति सर्वे लोके कामिन्यः का न तस्य प्रसाद्याः ॥
कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोऽधो धृतचापसज्जितशरः श्वेनः परिभ्रामति ।
इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतस् तूर्णं तौ तु यमालयं प्रति गतौ दैवी विचित्रा गतिः ॥
कान्तं विचिन्त्य सुलभेतरसंप्रयोगां श्रुत्वा विदर्भपतिमानमितं बलैश्च ।
धाराभिरातप इवाभिहतं सरोजं दुःखायते च हृदयं सुखमश्नुते च ॥
कान्तं विना नदीतीरं मदमालोक्य केकिनी ।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ॥
कान्तं वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकैर् आलिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् ।
रूक्षं नोक्तवती न वा कृतवती निःश्वासकोष्णे दृशौ प्रातर्मङ्गलमङ्गना करतलादादर्शमादर्शयत् ॥
कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।
सुगन्धिमारुतो तात शृङ्गाररससेवितः ॥
कान्तः करं स्पृशति जल्पति चाटुवाचम् आलोकते मुखमपाकुरुते दुकूलम् ।
इत्येव केवलमनङ्ग विलासभीता स्वप्नेऽपि पश्यति नवोढसरोरुहाक्षी ॥
कान्तः कुचादेककरेण वेणीम् एणीदृशः कर्षति कौतुकेन ।
अन्याङ्गनासङ्गमशुद्धिहेतोः श्यामां भुजङ्गीमिव हेमकुम्भात् ॥
कान्तः कृतान्तचरितः कुटिला तदम्बा वज्रोपमानि वचनानि च दुर्जनानाम् ।
प्रत्यङ्गमन्तरतनोः प्रहरन्ति बाणाः प्राणाः पुनः सखि बहिर्न खलु प्रयान्ति ॥
कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ ।
सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥
कान्तः पुत्रि हठाद् गतश्चरणयोर्न त्वं निपत्य स्थिता बद्धो मेखलयानया रतिरहः सख्या न वा फूत्कृतम् ।
का लज्जा मुषितासि किं प्रकटितैरेभिर्विलक्षस्मितैर् आः पापे विरहानलस्य न शिखा जानासि मर्मच्छिदः ॥
कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलमभित्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0