भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9435-9454

9435

कान्ता ददाति मदनं मदनः संतापमसममनुपशयम् ।
संतापो मरणमहो तथापि शरणं नृणां सैव ॥
कान्ताधरसुधास्वादाद्यूनं यज्जायते सुखम् ।
बिन्दुः पार्श्वे तदध्यात्मशास्त्रास्वादसुखोदधेः ॥

9436

कान्ताधरासवनिपानमुपास्य धीमान् पीयूषपानकृतये न रुचिं प्रयाति ।
तत्रास्ति चेन्मधुरिमा बत कोऽपि सत्यं किं नाम तात तृषिटाः क्षुधिताः पुनः स्युः ॥

9437

कान्तानवाधररसामृततृष्णयेव बिम्बं पपात शशिनो मधुभाजने यत् ।
निःशेषिते मधुनि लज्जितचित्तवृत्ति तत् तन्मुखाब्जजितकान्तितया विनष्टम् ॥

9438

कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव ।
संहर्षादलिविरुतैरितीव गायंल् लोलोर्मौ पयसि महोत्पलं ननर्त ॥

9439

कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाम्भः ।
संपेदे श्रमसलिलोद्गमो विभूषां रम्याणां विकृतिरपि श्रियं तनोति ॥

9440

कान्तानां वदनेन्दुकान्तिमधुना धत्ते सुधादीधितिः खेलत्खञ्जनपङ्क्तयो मृगदृशां तन्वन्ति नेत्रश्रियम् ।
पद्मानि श्वसितस्य सौरभमभिद्रुह्यन्ति वामभ्रुवाम् अभ्यस्यन्ति च राजहंसवनिताः पीनस्तनीनां गतिम् ॥

9441

कान्तानुरागचतुरोऽसि मनोहरोऽसि नाथोऽसि किं च नवयौवनभूषितोऽसि ।
इत्थं निगद्य सुदृशा वदने प्रियस्य निश्वस्य बाष्पलुलिता निहिता दृगन्ताः ॥
कान्तानेत्रार्धपाता वदनरुचिकराः सस्मिता भ्रूविलासाः साकारा वाक्यलेशाः सहतलनिनदा दृष्टनष्टाश्च हासाः ।
नाभीकक्षस्तनानां विवरणमसकृत्स्पर्शनं मेखलानां श्वासायासाश्च दीर्घां मदनशरहतां कामिनीं सूचयन्ति ॥
कान्तान्यर्धनिरीक्षितानि मधुरा हासोपदंशाः कथाः पीनश्रोणिनिरुद्धशेषमतुलस्पर्शं तदर्धांसनम् ।
स्नेहव्यक्तिकरान् करव्यतिकरांस्तांस्तांश्च रम्यान् गुणान् वेश्याभ्यः प्रणयादृतेऽपि लभते ज्ञातोपचारो जनः ॥
कान्ताप्रीतिपरानुजो विनयवान् हृन्नन्दनो नन्दनो भाग्यं स्वर्ललनोपभोग्यममला लक्ष्मीः सुखं निस्तुषम् ।
पूजा राजकुले यशोऽतिविशदं गोष्ठी समं कोविदैर् दानेऽतिव्यसनं रतिर्जिनमते स्यात् कस्यचित् पुण्यतः ॥

9442

कान्तामुखं सुरतकेलिविमर्दखेद- संजातघर्मकणविच्छुरितं रतान्ते ।
आपाण्डुरं तरलतारनिमीलिताक्षं संस्मृत्य हे हृदय किं शतधा न यासि ॥

9443

कान्तामुखद्युतिजुषामपि चोद्गतानां शोभां परां कुरवकद्रुममञ्जरीणाम् ।
दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य कन्दर्पबाणपतनव्यथितं हि चेतः ॥

9444

कान्तामुखास्वादपराङ्मुखा यत् पान्थाः शशाङ्कस्य करैर्विमृष्टाः ।
सुदुःसहं तापमिमे प्रयान्ति मन्ये ततौ नैव सुधेतरत्र ॥

9445

कान्तायाः करजैः कपोलफलके पत्रावली कल्पिता केलिद्यूतपणीकृतो विहरता पीतः स बिम्बाधरः ।
स्वेदार्द्रीकृतचन्दनस्तनतटी सानन्दमालिङ्गिता निर्विष्टा विषयाः शिवात्ममहसि न्यस्तं मनः संप्रति ॥

9446

कान्ताया विकसद्विलासहसितस्वच्छांशवश्चामरं संसक्तावभिषेकहेमकलशौ यच्चन्दनाङ्कौ स्तनौ ।
यत्कार्तस्वरकान्ति चारु जघनं सिंहासनं भूभुजां साम्राज्यं तदिदं जयाजयमयः शेषस्तु चिन्तामय्ः ॥

9447

कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना दावाग्निं न यथा परः शमयितुं शक्तो विनाम्भोधरम् ।
निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं कर्मौघं सुकृतं विना किमपरं हन्तुं समर्थं तथा ॥

9448

कान्तारं परितो ज्वलत्यतिबले दावानले दैवतो गोमायोर्गहनां गुहां परिपतन् दर्पोद्धुरः केसरी ।
यद्व्यापादयति स्म तं न कृपया तेनैष तस्मिन् वने सिंहानामभयप्रदोऽहमधुनेत्युत्पुच्छमुद्धावति ॥

9449

कान्तारः समराख्यश्च वैकुण्ठो वाञ्छितस् तथा ।
विशालश्च तथा नन्दः षोढाः निःसारुको भवेत् ॥

9450

कान्तारपादपानां यथा फलं मानुषैरननुभोग्यम् ।
एवमनार्येष्वर्थाः मनसाऽप्यार्यैरननुभोग्याः ॥

9451

कान्तारभूमिरुहमौलिनिवासशीलाः प्रायः पलायनपरा जनवीक्षणेन ।
कूजन्ति तेऽपि हि शुकाः खलु रामनाम सङ्गः स्वभावपरिवर्तविधौ निदानम् ॥

9452

कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे ।
उद्यतेषु च शस्त्रेषु नास्ति सत्त्ववतां भयम् ॥

9453

कान्ता रुचिं मुनिजनस्तरुणोऽवियोगी कामश्च रत्नमणिरुज्ज्वलकङ्कणेन ।
धत्ते पयोधरयुगे कुचभूषणेन हारे हरे हिमकरे मकरे करे च ॥

9454

कान्तारे घनतिमिरे भुजंगमेभ्यो नो भीता न च गणिता महापगापि ।
किं बाले वहसि भयं मदङ्गसंगात् विक्रीते करिणि किमङ्कुशे विवादः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc