भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9375-9394

9375

काणः कुब्जोऽथ खञ्जः श्रुतिबलविकलो वामनः पङ्गुरन्धः षण्डोऽपि च्छिन्ननासः परिजनरहितो दुर्भगो रोगदेही ।
दुष्पुत्रो दुष्कलत्रः स्वजनपरिजनैर्निन्दिनो हीनमानः सत्यं यज्जायते तत् स्वकृतमिदमहो चेष्टते जीवलोके ॥

9376

काणाः कमलपत्राक्षाः कदर्याः कल्पशाखिनः ।
कातरा विक्रमादित्याः कविदृग्गोचरं गताः ॥

9377

काणाः कुब्जाश्च षण्डाश्च तथा वृद्धाश्च पङ्गवः ।
एते चान्तःपुरे नित्यं नियोक्तव्याः क्षमाभृता ॥

9378

काणाः खञ्जाश्च कुब्जाश्च अतिविद्धाश्च पङ्गुलाः ।
एतेष्वन्तः पुररक्षायां नियोज्याः पार्थिवेन तु ॥
काणाश्छटाश्च रंडाश्च तथा वृद्धाश्च पङ्गवः ।
एते चान्तःपुरे नित्यं नियोक्तव्याः क्षमाभृता ॥
काणो निमग्नविषमोन्नतदृष्टिरेकः शक्तो विरागजनने जननातुराणाम् ।
यो नैव कस्यचिदुपैति मनःप्रियत्वम् आलेख्यकर्म लिखितोऽपि किमु स्वरूपः ॥

9379

कातरताकेकरित- स्मरलज्जारोषमसृणमधुराक्षी ।
योक्तुं न मोक्तुमथवा वलतेऽसावर्थलब्धरतिः ॥

9380

कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्याम् उभाभ्यामन्वियेष सः ॥

9381

कातर्यं तु न कार्मणं न न परं दम्भो न किं योषितां यच्चित्ता तनुचापलं मधुविधुद्बेषस् तनुत्वं तनोः ।
अस्माकं सखि पश्य संप्रति तनू रोमापि वक्रायते सद्यः प्रोषित नाथयाभिनवया पान्थस्त्रियो हासिताः ॥

9382

कातर्यं दुर्विनीतत्वं कार्पण्यमविवेकता ।
सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिंकराः ॥

9383

का तव काग्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।
कस्य त्वं वा कुत आयातस् तत् त्वं चिन्तय तदिदं भ्रातः ॥

9384

का तारैर्मम गर्जितैरुपरता धाराम्बुभिः का हता का मोहं गमिता वियोगविधुरा का वा कदम्बानिलैः ।
नीता का च विलोलतां मदकलैः केकारबैर्बर्हिणाम् इत्थं पान्थगृहेषु पश्यति घनो विद्युत्प्रदीपैरिव ॥

9385

कात्यायनीकुसुमकामनया किमर्थं कान्तारकुक्षिकुहरं कुतुकाद् गतासि ।
पश्य स्तनस्तबकयोस् तव कण्टकाङ्कं गोपः सुकण्ठि बत पश्यति जातकोपः ॥

9386

कात्र श्रीः श्रोणिबिम्बे स्रवदुदरपुरावस्तिखद्वारवाच्ये लक्ष्मीः का कामिनीनां कुचकलशयुगे मांसपिण्डस्वरूपे ।
का कान्तिर्नेत्रयुग्मे जलकलुषजुषि श्लेष्मरक्तादिपूर्णे का शोभावर्तगर्ते निगदत यदहो मोहिनस्ताः स्तुवन्ति ॥
का त्वं कामिनि जाह्नवी, किमिह ते, भर्ता हरो नन्वसाव् अम्भस्त्वं किल वेत्सि मन्मथकलां, जानात्ययं ते पतिः ।
स्वामिन् सत्यमिदं, नहि प्रियतमे सत्यः कुतः कामिनां इत्येवं हरजाह्नवीगिरिसुतासंजल्पितं पातु वः ॥

9387

का त्वं, कुन्तलमल्लकीर्तिर्, अहह क्वासि स्थिता, न क्वचित् सख्यस्तास्तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः ।
वाग् याता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः कान्तिर्मण्डलमैन्दवं मम पुनर्नाद्यापि विश्रामभूः ॥

9388

का त्वं पद्मपलाशाक्षि पीतकौशेयवासिनि ।
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दते ॥

9389

का त्वं पुत्रि, नरेन्द्र लुब्धकवधूर्, हस्ते किमेतत्, पलं क्षामं किं, सहजं ब्रवीमि नृपते यद्यादराच्छ्रूयते ।
गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न तृणं चरन्ति हरिणास्तेनामिषं दुर्बलम् ॥

9390

का त्वं, माधवदूतिका, वदसि किं, मानं जहीहि प्रिये धूर्तः सोऽन्यमना, मनागपि सखि त्वय्यादरं नोज्झति ।
इत्यन्योन्यकथारसैः प्रमुदितां राधां सखीवेषवान् नीत्वा कुञ्जगृहं प्रकाशिततनुः स्मेरो हरिः पातु वः ॥

9391

का त्वं, मुक्ति, रुपागतास्मि भवती कस्मादकस्मादिह श्रीकृष्णस्मरणेन देव भवतो दासीपदं प्रापिता ।
दूरे तिष्ठ मनागनागसि कथं कुर्यादनार्यं मयि त्वद्गन्धान्निजनामचन्दनरसालेपस्य लोपो भवेत् ॥

9392

का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥

9393

कादम्बिनी कम्बलिका कदम्ब- केदारकान्ताकुचकुट्टिमं च ।
कस्तूरिका केतकपुष्पगम्धः केकारवः प्रावृषि हर्षमूलम् ॥

9394

कादम्बिनी किमियमालि कदम्बमूले किं वा तमालतरुरेव किमन्धकारः ।
जानासि नैव सखि गोपकुलाङ्गनानां कौलव्रतव्रततिभङ्गकरः करीन्द्रः ॥
का दीयतां तव रघूद्वह सम्यगाशीर् निष्कण्टकानि विहितानि जगन्ति येन ।
आशास्महे ननु तथापि सह स्ववीरैर् भूकाश्यपोपमसुतद्वितया वधूः स्यात् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc