महासुभाषितसंग्रह · श्लोक 9315-9334
काका मूर्ध्नि सुखं वसन्ति शतशः शाखासु शाखामृगा घूकाः कोटरगह्वरेषु मशलैर्दंशैश्च सान्द्रं दलम् ।
आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः पान्था नोपसरन्ति चेत् क्षतमितः किं वृक्षराजस्य ते ॥
का काली का मधुरा का शीतलवाहिनी गङ्गा ।
कं संजघान कृष्णः कं बलवन्तं न बाधते शीतम् ॥
काकाल्लौल्यं यमात् क्रौर्यं स्थपतेर्दृढघातिताम् ।
एकैकाक्षरमादाय कायस्थः केन निर्मितः ॥
काका वृका घुकबकाश्च भेकाः प्रणम्य युष्मानिदमेव याचे ।
कोलाहलं मा कुरुत क्षमध्वं पुंस्कोकिलः कूजति मञ्जुरावम् ॥
काकिन्याः पत्रमूलं सहचरसहितं केतकीनां च कन्दं छायाशुष्कं च भृङ्गं त्रिफलरसयुतं तैलमध्ये निधाय ।
लौहे पात्रे प्रणीतं धरणितलगतं मासमात्रस्थितं तत् केशाः काशप्रकाशा अलिकुलसदृशाः सम्भवन्त्यस्य लेपात् ॥
काकुं करोषि गृहकोणकरीषपुञ्ज- गूढाङ्ग किं ननु वृथा कितव प्रयाहि ।
कुत्राद्य जीर्णतरणिभ्रमनातिभीत- गोपाङ्गनागणविडम्बनचातुरी ते ॥
काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः ।
पार्थस्यापि पराभवं यदि रिपुर्नादात् क्व तादृक् तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः ॥
काकुत्स्थस्य प्रतापाग्निर् दीप्तपिङ्गैर्वलीमुखैः ।
निर्वाणो राक्षसेन्द्रस्य मन्ये नीलैर्निशाचरैः ॥
काकुत्स्थेन शिरांसि यानि शतशश्छिन्नानि मायानिधेः पौलस्त्यस्य विमानसीमनि तथा भ्रान्तानि नाकौकसाम् ।
तान्येवास्य धनुःश्रमप्रशमनं कुर्वन्ति सीतापतेः क्रीडाचामरडम्बरानुकृतिभिर्लोलायमानै ः कचैः ॥
का कृता विष्णुना कीदृग् योषितां कः प्रशस्यते ।
असेव्यः कीदृशः स्वामी को निहन्ता निशातमः ॥
काके कर्णपुटीकठोरनिनदे पीयूषधारारस- स्यन्दोदञ्चितचारुपञ्चमरुते साधारणे मय्यपि ।
वन्यां वृत्तिमयं व्यधादिति मुधा वत्स व्यथां मा कृथाः क्व कैवं न कृतं जनेषु निकृतं दुर्मेधसा वेधसा ॥
काके कार्ष्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थितो गांभीर्ये महदन्तरं वचसि यो भेदः स किं कथ्यते ।
एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते के काकाः खलु के च हंसशिशवो देशाय तस्मै नमः ॥
काके शौचं द्यूतकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥
काकैः सह विवृद्धस्य कोकिलस्य कला गिरः ।
खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥
काकैः सार्द्धं वसन् हंसः क्षोभते चावसीदति ।
गतः कोमल एवाऽसो जिह्मो दुष्टो न काकवत् ॥
काकैरिमांश्चित्रबर्हान् मयूरान् पराजैष्ठाः पाण्डवान् धार्तराष्ट्रैः ।
हित्वा सिंहान् क्रोष्टुकान् गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र ॥
काकैर्निष्कुषितं श्वभिः कबलितं वीचीभिरान्दोलितं स्रोतोभिश्चलितं तटान्तमलिनं गोमायुभिर्लोडितम् ।
दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथि स्वं वपुः ॥
काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन् ।
पुरुषत्रये सपादे पश्चिमदिक्स्था न सा वहति ॥
काकोलः कलकण्ठिका कुवलयं कादम्बिनी कर्दमः कंसारिः कबरी कृपाणलतिका कस्तूरिका कज्जलम् ।
कालिन्दी कषपट्टिका करिघटा कामारिकण्ठस्थली यस्यैते करदा भवन्ति सखि तद्वन्दे विनिद्रं तमः ॥
का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।
भाषणं भीषणं साधु दूषणं यस्य भूषणम् ॥
का गणना विषयवशे पुंसि वराके वराङ्गना स्पृहया ।
व्याजेन वीक्षमाणा ध्यानधियां स्पृशति सज्ज्ञानम् ॥
काङ्क्षितेनाप्यलब्धेन भोगार्हे नवयौवने ।
जराजीर्णशरीरस्य भारेणेव धनेन किम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0