भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9295-9314

9295

काकतालीययोगेन यदनात्मवति क्षणम् ।
करोति प्रणयं लक्ष्मीस् तत् तस्याः स्त्रीत्वचापलम् ॥

9296

काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः ।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥

9297

काकतुण्डोक्तिरपरा मल्लिकोक्तिरनोपमा (?) ।
पाटलोक्तिश्च पद्मोक्तिः पद्मिन्युक्तिः स्फुटाः स्मृताः ॥

9298

काक त्वं फलनम्रविपिनं दैवात्समासादयन् किं कर्णौ बधिरीकरोषि परुषैः क्रेंकारकोलाहलैः ।
मौनं चेदवलम्बसे रतभरप्रक्रान्तपुंस्कोकिल- भ्रान्त्यापि त्वयि सञ्चरन्ति न कथं मुग्धाकटाक्षच्छटाः ॥

9299

का कथा बाणसंधाने ज्याशब्देनैव दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नान् व्यपोहति ॥

9300

काकमांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलम् ।
भक्षितेनापि किं तेन येन तृप्तिर्न जायते ॥

9301

काकमाची तथा कुष्ठं गोतक्रेण च पाचयेत् ।
नाशयेन् मण्डलिक्ष्वेडम् अगदोऽयं सुनिश्चितम् ॥

9302

काकमाचीशिफा कर्णे बद्धा रात्रिज्वरापहा ।
पाणिस्थं वृषवृन्दाकं द्यूते वितनुते जयम् ॥

9303

काकवराकमरालमवैषि न जर्जरिताऽर्जुनतार्य कुतः ।
विक्रमवैरिवधूजनलोचन- कज्जलवज्जलमज्जनतः ॥

9304

काकश्च द्रुमकुट्टश्च मण्डूको नीलमक्षिकः ।
लट्वया सह पञ्चैते गजं जघ्नुरुपायतः ॥

9305

काकस्य कति वा दन्ता मेषस्याण्डे कियत् पलम् ।
गर्दभे कति रोमाणि व्यर्थैषातु विचारणा ॥

9306

काकस्य चञ्चुर्यदि हेमयुक्ता माणिक्ययुक्तौ चरणौ च तस्य ।
एकैकपक्षे गजराजमुक्ता तथापि काको न च राजहंसः ॥

9307

काकस्य वृष्टिहेतोर् नीडं दिक्षु प्रशस्यते तिसृषु ।
दुर्भिक्षमरणहेतुर् भवति सयाम्येषु कोणेषु ॥

9308

काकाः किं किं न कुर्वन्ति क्रोङ्कारं यत्र तत्र वा ।
शुक एव परं वक्ति नृपहस्तोपलालितः ॥

9309

काकाः प्रभुप्रणिहितैः पिकपट्टबद्धेर् माकन्दबृन्दमकरन्दरसं लभन्ताम् ।
प्राप्ते वसन्तसमये कथमाचरन्ति कर्णामृतानि कलपञ्चमकूजितानि ॥

9310

काकानां कोकिलानां च सीमाभेदः कथं भवेत् ।
यदि विश्वसृजा साक्षं न कृता कर्णशष्कुली ॥

9311

काकानां प्रीतियोगं चिरसहवसतिं कोकिलापेक्षसे चेत् तर्हि त्वं तद्वदेव श्रवणपुटपटून् कुत्सितान् कूज शब्दान् ।
अभ्यासस् तत्र नो चेत् तव गलदमृता गीरियं गुप्यतां वा तामाकर्ण्य स्वजातेरननुगुणगुणं त्वाममी सन्त्यजेयुः ॥

9312

का कान्ता कालियारातेः पुनरर्थे किमव्ययम् ।
किं वन्द्यं सर्वदेवानां फलेषु किमु सुन्दरम् ॥

9313

का का प्रिया प्रियतमं परिरभ्य दोर्भ्याम् अभ्यागतेऽपि मिहिरे न जहाति निद्राम् ।
जागर्तु सज्जयतु चोलमितीव काकाः काकालिरालिरिव गूढगिरश्चकार ॥

9314

का काबला निधुवनश्रमपीडिताङ्गी निद्रां गता दयितबाहुलतानुबद्धा ।
सा सा तु यातु भवनं मिहिरोद्गमोऽयं सम्केतवाक्यमिति काकचया वदन्ति ॥
का कामधेनुरिह कश् चिन्तामणिरपि च कल्पशाखी कः ।
सर्वाण्यमूनि भुवने पर्यायवचांसि पुण्यस्य ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc