महासुभाषितसंग्रह · श्लोक 9335-9354
काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् ।
विचारवान् पणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥
काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम् ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥
काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम् ।
तथा सत्संनिधानेन मूर्खो याति प्रवीणताम् ॥
काचकामलदोषेण पश्येन् नेत्रे विपर्ययम् ।
अभ्याख्यानं वदेज्जिह्वा तत्र रागक उच्यते ॥
का चक्रे हरिणा, धने कृपणधीः कीदृग्, भुजंगेऽस्ति किं, कीदृक्, कुम्भसमुद्भवस्य जठरं, कीदृग्यियासुर्वधूः ।
श्लोकः कीदृगभीप्सितः सुकृतिनां, कीदृङ्नभो निर्मलं, क्षोणीमाह्वय सर्वगं किमुदितं रात्रौ सरः कीदृशम् ॥
काचाः काञ्चनभूषिताः कति न वा पुष्णन्ति रत्नश्रियं मौलौ वा कति नोद्वहन्त्यपधियस्तानेव रत्नभ्रमात् ।
अक्ष्णां ये पुनरुन्मृजन्ति तिमिरं यैर्नाम रत्नाकरः सिन्धुस्ते पृथगेव हन्त मणयस्तेष्वप्यभिज्ञाः पृथक् ॥
काचित् कराभ्यां कुसुमानि नीत्वा दधार शंभोः पदयोः समीपे ।
विवक्षया मन्मथदुष्प्रवृत्तेः समुत्सृजन्ती विशिखानिवाग्रे ॥
काचित् कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्रेन्दुलक्ष्मीर् अश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
म्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत् कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरोभावि नार्यः शशंसुः ॥
काचित् कृता कृतिरिति त्वयि सार्पितेति कापि प्रमोदकणिका मम नान्तरङ्गे ।
मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ॥
काचित् तृषार्ता वनिता निदाघे गङ्गां समभ्येत्य सुधासवर्णाम् ।
आदाय तद्वारि करद्वयेन विलोकयन्ती न पपौ किमेतत् ॥
(करकिसलयकान्तिकान्त्या शोणितशङ्कयेति ।)
काचित् पदैरस्खलितैः सखेलं वान्तीषु शुद्धान्तकरेणुकासु ।
राजाङ्गनानामकरोदवज्ञां श्रोणीभरे च स्तनगौरवे च ॥
काचित् पुरा विरहिणी परिवृद्धिहेतोर् यस्यै दिदेश सलिलं नवमालिकायै ।
सा पुष्पितैव जलमश्रुवशाद् वियोगे तस्यै प्रदाय कथमप्यनृणी बभूव ॥
काचित् स्वर्णलता तदूर्ध्वममलश्चन्द्रस् तदभ्यन्तरे पद्मे तन्निकटं तिलस्य कुसुमं तत्सन्निधौ पल्लवे ।
हेम्नः किंचिदधस्तयोश्च कलशौ कान्तौ जगन्मोहनौ स्वस्त्येतत् प्रकरोतु वस्त्रिजगतां किं ब्रह्मकृष्णादिभिः ॥
काचिद् बलिना क्रान्ता काचिन् न जहाति कामिनं रुचिरम् ।
अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धम् ॥
काचिद् बालकवन्महीतलगता मूलच्छिदाकारणं द्रव्येणार्जनपुष्पितापि विफली काचिच् च जातिप्रभा ।
काचिच् छ्रीः कदलीव भोगसुभगा सत्पुण्यबीजच्युता सर्वाङ्गे सुभगा रसाललतिकावत् पुण्यबीजाङ्किता ॥
काचिद् बाला रमणवसतिं प्रेषयन्ती करण्डं दासीहस्तात् सभयमलिखद् व्यालमस्योपरिष्टात् ।
गौरीकान्तं पवनतनयं चम्पकं चात्र भावं पृच्छत्यार्यो निपुणतिलको मल्लिनाथः कवीन्द्रः ॥
काचिद् विभूषयति दर्पणसक्तहस्ता बालातपेषु वनिता वदनारविन्दम् ।
दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नम् अवकृष्य निरीक्षते च ॥
काचिद् वियोगानलतप्तगात्री प्राणान् समाधारयितुं लिलेख ।
बाह्वोर्भुजङ्गं हृदि राहुबिम्बं नाभौ च कर्पूरमयं महेशम् ॥
काचिद् विलोलनयना रमणे स्वकीये दूरं गते सति मनोभवबाणखिन्ना ।
त्यक्तं शरीरमचिरान् मलयाद्रिवायुं सौरभ्यशालिनमहो पिबति स्म चित्रम् ॥
काचिद् विहृत्य किल कन्तुककेलिरङ्गाद् भूरेणुरूषिततनुर्निरगान्मृगाक्षी ।
उत्फुल्लपङ्कजवने सुचिरं चरित्वा किञ्जल्करेणुपरिधूसरितेव लक्ष्मीः ॥
का चिन्ता मम जीवने यदि हरिर्विश्वंभरो गीयते नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे ।
इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0