महासुभाषितसंग्रह · श्लोक 9275-9294
कांश्चिच्चाटुवचःशतैर्निजसुताप्रेमातिरेकै ः परान् अन्यान् वक्ररवाक्रमैर्धनवतः प्रापय्य गेहं निजम् ।
प्राग्दत्तग्रहणप्रगल्भकितवव्याजादवष्टभ्य तान् कुट्टिन्यः स्फुटमप्रगल्भचरितानेतान् निहन्तुं क्षमाः ॥
कांश्चित् कल्पशतं कृतस्थितिचयान् कांश्चिद् युगानां शतं कांश्चिद् वर्षशतं तथा कतिपयान् जन्तून् दिनानां शतम् ।
तांस्तान् कर्मभिरात्मनः प्रतिदिनं संक्षीयमाणायुषः कालोऽयं कवलीकरोति सकलान् भ्रातः कुतः कौशलम् ॥
कांश्चित् तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं कांश्चित् पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् ।
अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधयन्न् एष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥
कांश्चिदर्थान् नरः प्राज्ञो लघुमूलान् महाफलान् ।
क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥
कांसीकृतासीत् खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण ।
तुला च नाराचलता निजैव मिथोनुरागस्य समीकृतौ वाम् ॥
कांस्यस्वन इवाभाति यस्मिन् खड्गहते ध्वनिः ।
खङ्गोत्तमं तं वदति गिरिशः शुभवर्धनम् ॥
कां हरिरभरत् सूकररूपः कामरिरहितामिच्छति भूपः ।
केनाकारि च मन्मथजननं केन विराजति तरुणीवदनम् ॥
काकः काञ्चनपञ्जरे विनिहितः पद्माकरे कौशिकः श्राद्धे श्वा विनियोजितो हुतवहे हव्यः पलाण्डुः कृतः ।
सर्वं तेन कृतं किमत्र बहुना मद्यं महाशान्तये येनाज्ञानवता महीयसि पदे नीचः समारोपितः ॥
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥
काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं भुङ्क्ते राजशुकं निवार्य कुररः क्रीडापरो दाडिमम् ।
घूको बर्हिणमास्य शाखिशिखरे शेते सजानिः सुखं हा जातं विपरीतमद्य विपिने श्येने परोक्षं गते ॥
काकः पक्षबलेन भूपतिगृहे ग्रासं यदि प्राप्तवान् किं वा तस्य महत्त्वमस्य लघुता पञ्चाननस्यागता ।
येनाक्रम्य करीन्द्रगण्डयुगलं निर्भिद्य हेलालवाल् लब्ध्वा ग्रासवरं वराटकधिया मुक्तागणस्त्यज्यते ॥
काकः पक्षिषु चाण्डालः स्मृतः पशुषु गर्दभः ।
नराणां कोऽपि चाण्डालः स्मृतः सर्वेषु निन्दकः ॥
काकः पद्मवने धृतिं न लभते हंसश्च कूपोदके क्रोष्टा सिंहगुहान्तरे सुविपुले नीचस्तु भद्रासने ।
कुस्त्री सत्पुरुषं न जातु भजते सा सेव्यते दुर्जनैः या यस्य प्रकृतिर्विधातृविहिता सा तस्य किं वार्यते ॥
काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च ।
अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः ॥
काकः स्वभावचपलः परिशुद्धवृत्तिर् लब्ध्वा बलिं स्वजनमाह्वयते परांश्च ।
चर्मास्थिमांसवति हस्तिकलेवरेऽपि श्वा द्वेष्टि हन्ति च परान् कृपणस्वभावः ॥
काक आह्वयते काकान् याचको न तु याचकान् ।
काकयाचकयोर्मध्ये वरं काको न याचकः ॥
काककुर्कुटकायस्थाः सजातिपरिपोषकाः ।
सजातिपरिहन्तारः सिंहाः श्वानो द्विजा गजाः ॥
काकचञ्चुपुटीकृत्य ओष्ठौ प्रोक्तानिलं पिबेत् ।
ओंकारध्वनिनाकृष्य पूरयेद् यावदन्तरम् ॥
काकजङ्घाजटा निद्रां कुरुते मस्तके स्थिता ।
पुष्योद्धृतं शुनः पित्तम् अपस्मारघ्नमञ्जनात् ॥
काकजङ्घारसः कर्णे क्षिप्तो बाधिर्यनाशनः ।
हन्ति कर्णे जटा बद्धा तस्या नेत्रामयं ध्रुवम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0