महासुभाषितसंग्रह · श्लोक 9255-9274
... ... ... ...
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।
नीचैर् गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥
कस्यादेशात् क्षपयति तमः सप्तसप्तिः प्रजानां छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः ।
अभ्यर्थ्यन्ते नवजलमुचः केन वा वृष्टिहेतोर् जात्यैवैते परहितविधी साधवो बद्धकाङ्क्षाः ॥
कस्या नाम किमत्र नास्ति विदितं यद् वीक्ष्यमाणोऽप्ययं लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते ।
शक्यं दर्शयितुं न पूगफलवत् कृत्वा द्विधेदं वपुर् यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ॥
कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति ।
येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥
कस्यानिमेषवितते नयने दिवौको- लोकादृते जगति ते अपि वै गृहीत्वा ।
पिण्डे प्रसारितमुखेन तिमे किमेतद् दृष्टं न बालिश विशद्बडिशं त्वयान्तः ॥
कस्यापि कोऽपि कुरुते न सुखं दुःखं न दैवमपहाय ।
विदधाति वृथा गर्वं खलोऽहमहितस्य हन्तेति ॥
कस्यापि कोऽप्यतिशयोऽस्ति स तेन लोके ख्यातिं प्रयाति न हि सर्वविदस् तु सर्वे ।
किं केतकी फलति किं पनसः सुपुष्पः किं नागवल्ल्यपि च पुष्पफलैरुपेता ॥
कस्यापि चाग्रतो नैव प्रकाश्यः स्वगुणः स्वयम् ।
अतुच्छत्वेन तुच्छोऽपि वाच्यः परगुणः पुनः ॥
कस्यामोदं कमलं वदनमिदं ते प्रिये न संतनुयात् ।
अवलम्ब्य मित्रमेकं विकसति न यदन्यथा जातु ॥
कस्याश्चित् सुभग इति श्रुतश्चिरं यस् तं दृष्ट्वाधिगतरतेर्निमीलिताक्ष्याः ।
निस्पन्दं वपुरवलोक्य सौविदल्लाः सन्तेपुर्विधुरधियो निशान्तवध्वाः ॥
कस्याश्चिन् मुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः ।
किञ्जल्कव्यतिकरपिञ्जरान्तराभिश् चित्रश्रीरलमलकाग्रवल्लरीभिः ॥
कस्यास्ति नाशो मनसो वितत्या क्व सर्वथा नास्ति भयं विमुक्तौ ।
शल्यं परं किं निजमूर्खतैव के के ह्युपास्या गुरवश्च सन्तः ॥
कस्येदं भवनं, ममैव, भवती का सुभ्रु, लाटाङ्गना केर्य, मुग्धतरा सखी मम, पतिर्गेहेऽस्ति किं, तेन वा ।
इत्थं पान्थवचो दिनान्तसमये गूढार्थमाकर्ण्य वै मन्दान्दोलितकुण्डलस्तबकया तन्व्यावधूतं शिरः ॥
कस्येमौ पितरौ मनोभववता तापेन संयौजिताव् अन्योन्यं तनयादिकं जनयतो भूम्यादिभूतात्मभिः ।
इत्थं दुःस्थमतिर्मनोभवरतिर्यो मन्यते नास्तिकः शान्तिस् तस्य कथं भवेद् धनवतो दुष्कर्मंधर्माश्रयात् ॥
कस्येयं तरुणि प्रपा, पथिक नः, किं पीयतेऽस्यां, पयो धेनूनामथ माहिषं बधिर रे वारः, कथं मङ्गलः ।
सोमो वाथ शनैश्चरो, ऽमृतमिदं, तत्तेऽधरे दृश्यते श्रीमत्पान्थ विलाससुन्दर सखे यद् रोचते तत् पिब ॥
कस्योदपत्स्यत रुचिर्विरसावसाने स्तोकस्थितावनुचितप्रभवे भवेऽस्मिन् ।
नारायणस्मृतिकथामृतपानगोष्ठी चेतोविनोदनमियं यदि नाम न स्यात् ॥
कस्योपयोगमात्रेण धनेन रमते भनः ।
पदप्रमाणमाधारम् आरूढः को न कम्पते ॥
कस्राघातैः सुरभिरभितः सत्वरं ताडनीयो गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त ।
कारागारे क्षिपत तरसा पञ्चमं रागराजं चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषम् ॥
कह्लारस्पर्शगर्भैः शिशिरपरिगमात् कान्तिमद्भिः कराग्रैश् चन्द्रेणालिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः ।
अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् दूरारूढे प्रमोदे हसितमिव परिस्पष्टमाशावधूभिः ॥
कांचिद् दिनार्धसमये रविरश्मितप्तां नीलांशुकाञ्चलनिलीनमुखेन्दुम्बिम्बाम् ।
तां तादृशीं समनुवीक्ष्य कविर्जगाद राहुर्दिवा ग्रसति पर्व विना किलेन्दुम् ॥
कां तपस्वी गतोऽवस्थाम् इति स्मेराविव स्तनौ ।
वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0