महासुभाषितसंग्रह · श्लोक 9235-9254
कस्य करान्न स्खलिता नीरनिधिक्लेदपिच्छिला लक्ष्मीः ।
भृगुचरणधूलिपरुषे हृदि परिबद्धा हरेः स्थिरेयमभूत् ॥
कस्यचिज् जायते जन्तोः पादाघातस् तवाध्वनि ।
पदभङ्गव्यथा शम्भो जृम्भते जम्भवैरिणः ॥
कस्यचित् किमपि नो हरणीयं मर्मवाक्यमपि नोच्चरणीयम् ।
श्रीपतेः पदयुगं स्मरणीयं लीलया भवजलं तरणीयम् ॥
कस्यचित् समदनं मदनीय- प्रेयसीवदनपानपरस्य ।
स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् ॥
कस्यचिन्न हि दुर्बुद्धेश् छन्दतो जायते मतिः ।
यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥
कस्य तृषं न क्षपयसि पिबति न कस्तव पयः प्रविश्यान्तः ।
यदि सन्मार्गसरोवर नक्री न क्रोडमधिवसति ॥
कस्य दोषः कुले नास्ति व्याधिना को न पीडितः ।
व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥
कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन ।
किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ॥
कस्य न प्रतिहतं बत चक्षुर् ध्वान्तसन्ततिभिरड्डमराभिः ।
केवलं मनसिजप्रतिहतानां नावधूतमभिसारवधूनाम् ॥
कस्य न वाहनयोग्या मुग्धधियस् तुच्छसाधने लग्नाः ।
प्रीततया प्रशमरुचश् चपलासु स्त्रीषु येऽदान्ताः ॥
कस्य नो कुरुते मुग्धे पिपासाकुलितं मनः ।
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ॥
कस्य मरौ दुरधिगमः कमले कः कथय विरचितावासः ।
कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः ॥
कस्य माता कस्य पिता कस्य बन्धुर्महामुने ।
विभ्रमश् च स्मृतिभ्रंशात् तेन मुह्यन्ति जन्तवः ॥
कस्य माता पिता कस्य कस्य भार्या सुतोऽपि वा ।
जातौ जातौ हि जीवानां भविष्यन्त्यपरेऽपरे ॥
कस्य वक्तव्यता नास्ति सोपायं को न जीवति ।
व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥
कस्य स्यान्न स्खलितं पूर्णाः सर्वे मनोरथाः कस्य ।
कस्येह सुखं नित्यं दैवेन न खण्डितः को वा ॥
कस्य स्वर्गश्रियो वश्याः कस्य चैन्द्रं पदं भुवि ।
कं देवा बहु मन्यन्ते सङ्ग्रामे मरणादृते ॥
सङ्ग्रामे मरणं पुण्यं गयायां मरणे तथा ।
गङ्गायां मरणे मोक्षः सङ्ग्रामे मरणं सुखम् ॥
यदि वस्तुं मनः पुंसां स्वर्गस्त्रीभिः समं चिरात् ।
अपरां सुखितां कृत्वा सङ्ग्रामे म्रियतां तदा ॥
कस्यांचिद् वाचि कैश्चिन्ननु यदि विहितं दूषणं दुर्दुरूढैश् छिन्नं किं नस्तदा स्यात् प्रथितगुणवतां काव्यकोटीश्वराणाम् ।
वाहाश्चेद् गन्धवाहाधिकविहितजवाः पञ्चषाश्चान्धखंजाः का हानिः शेरशाहक्षितिपकुलमणेरश्वकोटीश्वरस्य ॥
कस्याख्याय व्यतिकरमिमं मुक्तदुःखो भवेयं को जानीते निभृतमुभयोरावयोः स्नेहसारम् ।
जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चिरमनुगतं तत् प्रिये किं करोमि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0