महासुभाषितसंग्रह · श्लोक 9215-9234
कस्मात् संल्किश्यते विद्वान् व्यर्थयार्थेहयासकृत् ।
कस्यचिन् मायया नूनं लोकोऽयं सुविमोहितः ॥
कस्मात् सत्यवतीसुतेन मुनिना नोक्तं भविष्यत्कथा- मध्ये रूपमनादिमध्यनिधनस्येहं हरेर्मानुषम् ।
इत्थं व्युत्थितविश्वकण्टकचमूनिर्मूलनव्यापृतं संग्रामाम्बरसूर्यमम्बरचरास्त्वां वीक्ष्य संशेरते ॥
कस्मादद्य न भूषितं वपुरिदं सद्भूषणैः काञ्चनैः कस्मादच्छतराणि नाद्य वसनान्यङ्गीकृतानि त्वया ।
उक्ता सेति मया मनोज्ञ विजने बाला विशालाक्ष मा क्षिप्रं रोदनमेकमेव विदधे प्रत्युत्तरं नो ददौ ॥
कस्मादिदं नयनमस्तमिताञ्जनश्रि विश्रान्तपत्ररचनौ च कुतः कपोलौ ।
शृङ्गारवारिरुहकाननराजहंसि कस्मात् कृशासि विरसासि मलीमसासि ॥
कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगर्भैः करैः कस्माद् वा जलधारयैव धरणिं धाराधरः सिञ्चति ।
भ्रामं भ्राममयं च नन्दयति वा कस्मात् त्रिलोकीं रविः साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ॥
कस्माद् दूति श्वसिषि निभृतं, सत्वरावर्तनेन भ्रष्टो रागः किमधरदले, प्रार्थनाभिस्त्वदर्थम् ।
स्रस्ता चेयं किमलकततिस्, तत्पदालुण्ठनेन वासस् तस्य त्वयि वद कथं, प्रत्ययार्थं तवैव ॥
कस्माद् भग्नाः सुमुखि वलया, मार्गपातान्निशायां किं ते वक्त्रं विगतरचनं, क्षालितं धूलिपूर्णम् ।
ओष्ठे रागः किमपि गलित, स्त्वद्व्यथोच्छ्वासवातैस् तद्वासः किं, हृतमिति मया वस्त्रलोभात् किलेति ॥
कस्माद् भयमिह मरणाद् अन्धादपि को विशिष्यते रागी ।
कः शूरो यो ललना- लोचनबाणैर्न विव्यथितः ॥
कस्मिञ्छेते मुरारिः क्व न खलु वसतिर्वायसी को निषेधः स्त्रीणां रागस् तु कस्मिन् क्व नु खलु सितिमा शैरिसंबोधनं किम् ।
संबुद्धिः काऽहिमांशोर्विधिहरवयसां चापि संबुद्धयः का ब्रूते लुब्धः कथं वा कुरुकुलहननं केन तत् केशवेन ॥
कस्मान् म्लायसि मालतीव मृदितेत्यालीजने पृच्छति व्यक्तं नोदितमार्तयापि विरहे शालीनया बालया ।
अक्ष्णोर्बाष्पचयं निगृह्य कथमप्यालोकितः केवलं किंचित्कुड्मलकोटिभिन्नशिखरश्चूतद्रुमः प्राङ्गणे ॥
कस्मिन् कर्मणि सामर्थ्यम् अस्य नोत्तपतेतराम् ।
अयं साधुचरस् तस्माद् अञ्जलिर्बध्यतामिह ॥
कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः ।
तद्दृष्ट्या व्यर्थतामात्रम् अनर्थस्तु न धर्मजः ॥
कस्मिन् वसन्ति वद मीनगणा विकल्पं किं वापदं वदति किं कुरुते विवस्वान् ।
विद्युल्लतावलयवान् पथिकाङ्गनानाम् उद्वेजको भवति कः खलु वारिवाहः ॥
कस्मिन् स्वपिति कंसारिः कावृत्तिरधमा नृणाम् ।
किं ब्रूते पितरं बालः किं दृष्ट्वा रमते मनः ॥
कस्मै किं कथनीयं कस्य मनःप्रत्ययो भवति ।
रमयति गोपवधूटी कुञ्जकुटीरे परं ब्रह्म ॥
कस्मैचित् कपटाय कैटभरिपूरःपीठदीर्घालयां देवि त्वामभिवाद्य कुप्यसि न चेत् तत् किंचिदाचक्ष्महे ।
यत् ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच् च ते नीचान्नीचतरोपसर्पणमपामेतत् किमाचार्यकम् ॥
कस्मैचित् प्रतिपाद्य विक्रमजितां विप्राय विश्वंभराम् अब्धौ वैभवलब्धवासरसिकः क्षेमाय रामोऽस्तु वः ।
श्लाघन्ते रणसीम्नि यस्य चरितं कालाग्निकूलंकष- ज्वालोद्गारिकुठारकुक्षिनिहितक्ष्मापालचक्रा न् जनान् ॥
कस्मैचिद् द्विजबन्धवे कियदपि क्षीरं पुरा नाथते दत्तो येन दयारसैकवपुषा दुग्धोद एवार्णवः ।
श्रीश्रीवल्लभकल्पपादपसुधाचिन्तामणीब् हिः समं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥
कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय ।
कस्मादुद्विजितव्यं संसारारण्यतः सुधिया ॥
कस्मै यच्छति सज्जनो बहुधनं सृष्टं क्षगत् केन वा शम्भोर्भानि च को गले युवतिभिर्वेण्यां च का धार्यते ।
गौरीशः कमताडयच्चरणतः का रक्षिता राक्षसैर् आरोहादवरोहतः कलयतामेकं द्वयोरुत्तरम् ॥
कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि स्वात्मोपस्करणाय चेन् मम वचः पथ्यं समाकर्णय ।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृतास् तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0