महासुभाषितसंग्रह · श्लोक 9195-9214
कस् त्वं, तासु यदृच्छया, कितव यास्तिष्ठन्ति गोपाङ्गनाः प्रेमाणं न विदन्ति यास्, तव हरे किं तासु ते कैतवम् ।
एषा हन्त हताशया यदभवं त्वय्येकताना परं तेनास्याः प्रणयोऽधुना खलु मम प्राणैः समं यास्यति ॥
कस् त्वं, पीतांबरोऽहं, किमु वदसि मृषा चांबरं केन पीतं मुग्धे कंसस्य शत्रुः, शिव शिव सालिलं सस्यवैरि क्व दृष्टम्।
मल्लास्यध्वंसनोऽहं किमिति निजमहो लास्यमध्वंसि चेति व्याहारैर्वल्लवीनां निशि भवतु मुदेऽनुत्तरः श्रीपतिर्वः ॥
कस् त्वं ब्रह्म, न्नपूर्वः, क्व च तव वसति, र्याखिला ब्रह्मसृष्टिः कस् ते नाथो, ह्यनाथः, क्व च तव जनको, नैव तातं स्मरामि
किं तेऽभीष्टं ददामि, त्रिपदपरिमिता भूमि, रल्पं किमेतत् त्रैलोक्यं, भावगर्भं बलिमिदमवदद् वामनो वः स पायात् ॥
कस् त्वं ब्रह्मन्न्, अपूर्वस्, त्वदनुचरजनो, नास्त्यनाथोऽहमेकः, किं दद्यामीप्सितं ते, त्रिपदविहरणस्थानमेतत्, कियत्ते ।
त्रैलोक्यं तद् द्विजातेर्मम शमनिरतस्येति सम्मूढभावा विष्णोर्वाचः सुरारौ कृतकपटपदन्यासमुग्धाः पुनन्तु ॥
कस्त्वं भद्र, खलेश्वरोऽहम्, इह किं घोरे वने स्थीयते, शार्दूलादिभिरेव हिंस्रपशुभिः भोज्योऽहमित्याशया ।
कस्मात् कष्टमिदं त्वया व्यवसितं, मद्देहमाम्साशिनः प्रत्युत्पन्ननृमांसभक्षणधियस्ते घ्नन्तु सर्वान्नरान् ॥
कस् त्वं भोः, कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि, साधु विदितं, कस्मादिदं, कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ॥
कस् त्वं भोः, कविरस्मि, तत् किमु सखे क्षीणोऽस्य, नाहारतो धिग् देशं गुणिनोऽपि, दुर्मतिरियं देशं न मामेव धिक् ।
पाकार्थी क्षुधितो यदैव विदधे पाकाय दुद्धिं तदा विन्ध्ये नेन्धनमम्बुधौ न सलिलं नान्नं धरित्रीतले ॥
कस् त्वं भो निशि, केशवः, शिरसिजैः किं नाम गर्वायसे भद्रे शौरिरहं, गुणैः र्पितृगतैः पुत्रस्य किं स्यादिह ।
चक्री चन्द्रमुखि, प्रयच्छसि न मे कुण्डीं घटीं देहिनीम् इत्थं गोपवधूहृतोत्तरतया दुःस्थो हरिः पातु वः ॥
कस् त्वं लोहितलोचनास्यचरणो, हंसः, कुतो मानसात् किं तत्रास्ति, सुवर्णपङ्कजवनान्यम्भः सुधासन्निभम् ।
रत्नानां निचयाः प्रवालमणयो वैडूर्यरोहाः क्वचिच्, अम्बूका अपि सन्ति, नेति च बकैराकर्ण्य हीहीकृतम् ॥
कस् त्वं वानर, रामराजभवने लेखार्थसंवाहको, यातः कुत्र पुरागतः स हनुमान् निर्दग्धलङ्कापुरः ।
वद्धो राक्षससूनुनेति कपिभिः संताडितस् तर्जितः स व्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते ॥
कस् त्वं, शूली, प्रविश भिषजां वेश्म, वैद्यं न जाने, स्थाणुर्बाले, न वदति तरु-र्नीलकण्ठः प्रमुग्धे ।
केकामेकां वद त्वं, पशुपतिरबले, नैव दृष्टे विषाणे इत्येवं शैलकन्याप्रतिवचनजडः पातु वः पार्वतीशः ॥
कस् त्वं शूली, मृगय भिषजं नीलकण्ठः प्रियेऽहं केकामेकां वद, पशुपति,-र्नैवदृश्ये विषाणे ।
मुग्धें स्थाणुः, स चरति कथं, जीवितेशः शिवाया गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥
कस्मात् कस्मिन् समुत्पन्ने सरागं भुवनत्रयम् ।
अत्रादौ कथितं श्लोके यो जानाति स पण्डितः ॥
कस्मात् कोऽहं किमपि च भवान् कोऽयमत्र प्रपञ्चः स्वं स्वं वेद्यं गगनसदृशं पूर्णतत्त्वप्रकाशम् ।
आनन्दाख्यं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥
कस्मात् तन्वि तनूनि सम्प्रति समान्यङ्गानि जातानि ते कस्मात् कोकनदप्रभं मुखमिदं जातं हि चन्द्रोपमम् ।
एवं पृच्छति वल्लभेऽम्बुजमुखि प्रोष्यस्वभावादिति व्यावृत्याथ तया सगद्गदरवं मुक्तश्च बाष्पोत्करः ॥
कस्मात् त्वं क्व नु दृश्यते सुखमुखं क्वास्तेऽन्धकारः परं क्व स्त्रीषु स्मरधूमकेतुरुदितेओ दृष्टा युवानः क्व ते ।
गन्ता क्व क्व च पञ्चमः क्व णसकृत् क्वात्संकुरो निद्गतः क्वानन्दैकरसोदयः क्व नु सती कैवाध्वगस् तत्कथा ॥
कस्मात् त्वं, तातगेहाद्, अपरमभिनवा ब्रूहि का तत्र वार्ता, देव्या देवो जितः, किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् ।
इत्येवं बर्हिनाथे कथयति सहसा भर्तूभिक्षाविभूषा- वैगुण्योद्वेगजन्मा जगदवतु चिरं हारवो भृङ्गरीटेः ॥
कस्मात् त्वं दुर्बलासीति सख्यस् तां परिपृच्छति ।
त्वयि संनिहिते तासु दद्यात् कथय सोत्तरम् ॥
कस्मात् त्वं, भवदालयाद्, वद सखे क्षेमं, तवानुग्रहाद्, दृष्टा मे सुभगा, न तेऽस्ति सुभगा दृष्टा भवद्गेहिनी ।
स्वर्भानुं विषमेक्षणं विषधरं काकं वराकी गृहे चन्द्रानङ्गसमीरकोकिलभयाद् व्यग्रा लिखन्ती मुहुः ॥
कस्मात् त्वं हि विखिद्यसे कतिपयैरेव प्रिये वासरैर् आयाता वयमेहि धेहि पुरतः प्रास्थानिकं मङ्गलम् ।
एवं वादिनि वल्लभे दयितया निःश्वस्य पाणौ कृती मङ्गल्यः कलशो विलोचनपयोधाराभिरापूरितः ॥
कस्मात् पार्वति निष्ठुरासि, सहजः शैलोद्भवानामयं निःस्नेहासि कथं, न भस्मपुरुषः स्नेहं विभर्ति क्वचित् ।
कोपस् ते मयि निष्फलः प्रियतमे, स्थाणौ फलं किं भवेद् इत्थं निर्वचनीकृतो गिरिजया शंभुश्चिरं पातु वः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0