भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9175-9194

9175

कस्तूरिकां हरिण मुञ्च वनोपकण्ठं मा सौरभेण ककुभः सुरभीकुरुष्व ।
आस्तां यशो ननु किरातशराभिघातात् त्रातापि हन्त भविता भवतो दुरापः ॥

9176

कस्तूरिकाचन्दनकुङ्कुमानि सौभाग्यचिह्नानि विलासिनीनाम् ।
प्रयागमृत्स्नातिलकक्रियैव सौभाग्यचिह्नं विधवाललाटे ॥

9177

कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम् ।
प्रौढिं भजन्तु कुमुदानि मुदामुदाराम् उल्लासयन्तु परितो हरितो मुखानि ॥
कस्तूरिकादिक्रयविक्रयाङ्गां यदृच्छया यद्विपणिं गतानाम् ।
सौरभ्यमङ्गेषु समग्रलग्नम् न हीयते पञ्चषमप्यहानि ॥

9178

कस्तूरिकामृगाणाम् अण्डाद् गन्धगुणमखिलमादाय ।
यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥

9179

कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् ।
किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायनम् ॥

9180

कस्तूरीति, किमङ्ग, सांपरिमलद्रव्यं किमप्यामरं पेया किं, न हि, कीदृशी, मृगदृशां शृङ्गारलीलास्पदम् ।
धार्या कुत्र, कुचस्थलीषु, कुचयोः स्थौल्यं ततो हीयते क्लिष्टः क्लिश्यति पक्वणैश्च बहुशः कस्तूरिकाविक्रयी ॥

9181

कस्तूरीतिलकं तस्या जनयति शोभां भ्रुवोरन्तः ।
कोदण्डमध्यलग्नं फलमिव पञ्चेषुबाणस्य ॥

9182

कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु ।
अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः ॥

9183

कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु ।
कलङ्कशङ्कया राहुर् ग्रसिष्यति तवाननम् ॥

9184

कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्रीपरिवेष्टतो विजयते गोपालचूडामणिः ॥

9185

कस्तूरीतिलकं ललाटरचितं नासामणिं निस्तलं वक्त्रं कुञ्चितकेशपाशमनिशं दृष्टिं निसृष्टां पुरः ।
पुंसां मानसमत्स्यबन्धनविधौ धत्सेऽत्र वत्से स्वयं जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥

9186

कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति ।
याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु- स्थासन्ति प्रथयन्तु तास् तव शिवं श्रीकण्ठकण्ठत्विषः ॥

9187

कस्तूरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्ण- प्रान्ते नीलोत्पलीयन्त्युरसि मरकतालंकृतीयन्ति देव्याः ।
रोमालीयन्ति नाभेरुपरि हरिमणीमेखलीयन्ति मध्ये कल्याणं कुर्युरेते त्रिजगति पुरजित्कण्ठभासां विलासाः ॥

9188

कस्तूरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् ।
रागो न स्खलितस् तवाधरपुटे ताम्बूलसंवर्धितः किं रुष्टासि गजेन्द्रमत्तगमने किं वा शिशुस् ते पतिः ॥

9189

कस्तूरी सितिमानमागतवती शौक्ल्यं गताः कुन्तला नीलं चोलमभूत् सितं धवलिमा जातो मणीनां गणे ।
ध्वान्तं शान्तमभूत् समं नरपते त्वत्कीर्तिचन्द्रोदये त्रैलोक्येङ्प्यभिसारसाहसरसः शान्तः कुरङ्गीदृशाम् ॥
कस्तूर्या तत्कपोलद्वयभुवि मकरीनिर्मितौ प्रस्तुतायां निर्मित्सूनां स्ववक्षस्यतिपरिचयनात् त्वत्प्रशस्तीरुपांशु ।
वीर श्रीसिंहभूप त्वदहितकुभुजां राज्यलक्ष्मीसपत्नी- मानव्याजेन लज्जां सपदि विदधते स्वावरोधे प्रगल्भाः ॥

9190

कस् ते शशाङ्क मोहः सुधाकरोऽहं न कोऽपि मद्भिन्नः ।
किं ननु पश्यसि निजभा- जयि वनिताया मुखं मूढ ॥

9191

कस् ते शौर्यमदो योद्धुं त्वय्येकं सप्तिमास्थिते ।
सप्तसप्तिसमारुढा भवन्ति परिपन्थिनः ॥

9192

कस् त्वं, कृष्णमवेहि मां किमिह ते, मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः ।
कर्तुं तत्र पिपीलिकापनयनं, सुप्ताः किमुद्बोधिता बाला, वत्सगतिं विवेक्तुमिति संजल्पन् हरिः पातु वः ॥

9193

कस् त्वं, कोऽपि, कुतोऽसि, रत्नवसतेस्तीरादहं नीरधेर्, लब्धं किंचन, गर्जितैर्बधिरता दृग्व्याहतिः सैकतैः ।
मा खेदं कुरु तादृगौर्वदहनज्वालावलीदुःसहं क्षारोदं यदुपास्य जीवसि सखे श्लाघ्यं न तन् मन्यसे ॥

9194

कस् त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं सर्वं त्यक्वा स्वप्नविचारम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc