महासुभाषितसंग्रह · श्लोक 9155-9174
किमेवमविशङ्कितः शिशुकुरङ्ग लोलक्रमं परिक्रमितुमीहसे विरम नैव शून्यं वनम् ।
स्थितोऽत्र गजयूथनाथमथनोच्छलच्छोणितच्- छटापटलभासुरोत्कटसटाभरः केसरी ॥
कषायकलुषो जीवो रागरञ्जितमानसः ।
चतुर्गतिभवाम्भोधौ भिन्ननौरिव सीदति ॥
कषायपशुभिर्दुष्टैर्धर्मकामार्थनाश कैः ।
शममन्त्रहतैर्यज्ञं विधेहि विहितं बुधैः ॥
कषायमुक्तं कथितं चरित्रं कषायवृद्धावुपघातमेति ।
यदा कषायः शममेति पुंसस् तदा चरित्रं पुनरेति पूतम् ॥
कषायरागवचनं वीतरागोऽधरस्तव ।
विहारः कण्ठदेशश्च दूति प्रव्रजितासि किम् ॥
कषायविजये सौख्यम् इन्द्रियाणां च निग्रहे ।
जायते परमोत्कृष्टम् आत्मनो भवभेदि यत् ॥
कषायविषयार्तानां देहिनां नास्ति निर्वूतिः ।
तेषां च विरमे सौख्यं जायते परमाद्भुतम् ॥
कषायविषयाहारत्यागो यत्र विधीयते ।
उपवासः स विज्ञेयः शेषं लङ्घनकं विदुः ॥
कषायसङ्गौ सहते न वृत्तं समार्द्रचक्षुर्न दिनं च रेणुम् ।
कषायसङ्गौ विधुनन्ति तेन चारित्रवन्तो मुनयः सदापि ॥
कषायान् शत्रुवत् पश्येद् विषयान् विषवत् तथा ।
मोहं च परमं व्याधिम् एवमूचुर्विचक्षणाः ॥
कषाया विषया योगाः प्रमादाविरती तथा ।
मिथ्यात्वमार्तरौद्रे चेत्य् अशुभं प्रति हेतवः ॥
कषायास्तन्निहन्तव्यास् तथा तत्सहचारिणः ।
नोकषायाः शिवद्धारा गलीभूता मुमुक्षुभिः ॥
कषायैरुपवासैश्च कृतामुल्लाघतां नृणाम् ।
निजौषधकृतां वैद्यो निवेद्य हरते धनम् ॥
कष्टं कर्मेति दुर्मेधाः कर्तव्याद् विनिवर्तते ।
न साहसमनारभ्य श्रेयः समुपलभ्यते ॥
कष्टं खलु मूर्खत्वं कष्टं खलु यौवने च दारिद्र्यम् ।
कष्टादपि कष्टतरं परगृहवासः प्रवासश्च ॥
कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।
कष्टात् कष्टतरं चैव परगेहनिवासनम् ॥
कष्टं जीवति गणको गणिका कथकश्च सेवको वैद्यः ।
दिवसे दिवसे मरणं परजनमनरञ्जनी वृत्तिः ॥
कष्टं नैव परिस्थिते समुदियात् कार्येषु नो जातुचित् संजायेत न चापि तद्व्यतिकराद् बाह्यादकिंचित्करात् ।
कस्माच्चित् खलु भावतोऽन्तरभवात् त्वस्माकमुत्पद्यते प्राणस्यैव विशेषतोऽन्तरशयाद् भावात् समुज्जृम्भते ॥
कष्टं वने निवसतोऽत्र सदा नरस्य नो केवलं निजतनुप्रभवं भवेच् च ।
दैवं च पित्र्यमखिलं न विभाति कृत्यं तस्माद् गृहे निवसतात्महितं प्रचिन्त्यम् ॥
कष्टं साहसकारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः ।
उपवीतादपि विदितो न द्विजदेहस् तपस्वी ते ॥
कष्टं हृदि ज्वलति शोकमयो ममाग्निस् ते चक्षुषी च विरहज्वरजागरुके ।
एतन्मनो भ्रमति विष्वगसूंस् तथापि त्वं पश्यतोहर इव स्मर हर्तुकामः ॥
कष्टा वृत्तिः पराधीना कष्टो वासो निराश्रयः ।
निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥
कष्टा वेधव्यथा कष्टो नित्यं च वहनक्लमः ।
श्रवणानामलंकारः कपोलस्य तु कुण्डलम् ॥
कष्टे नोपार्जितं वित्तं हेलया क्वापि निर्गतम् ।
किं करोमि क्व गच्छामि निर्भाग्योऽहं भुवस्तले ॥
कष्टो जनः कुलधनैरनुरञ्जनीयस् तन्नो यदुक्तमशिवं न हि तत् क्षमं ते ।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥
कष्टोपार्जितमत्र वित्तम्खिलं द्यूते मया योजितं विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुतौ ।
पारम्पर्यसमागता च विनयो वामेक्षणायां कृतः सत्पात्रे किमहं करोमि विवशः कालेऽद्य नेदीयसि ॥
कस्तस्य जीवितार्थः सति विभवे कश्च तस्य पुरुषार्थः ।
योऽर्थिनमभिमुखमागतम् अनभिमुखः सन् विसर्जयति ॥
कस्तां निन्दति लुम्पति कः स्मरफलकस्य बर्णकं मुग्धः ।
को भवति रत्नकण्टकम् अमृते कस्यारुचिरुदेति ॥
कस्तावद् बलिकर्णभार्गवमहादानप्रमाणस्तवः कश्चासौ कुरुपाण्डपाण्डुरयशः प्रस्तावनाविस्तरः ।
यावद् वर्षति वीरसिंहतनयो वृष्टीरिमाः काञ्चनीर् धाराः प्रावृषि तावदञ्जनरुचिर्धारा न धाराधरः ॥
कस्तूरिकां तृणभुजामटवीमृगाणां निक्षिप्य नाभिषु चकार च तान् वधार्हान् ।
मूढो विधिः सकलदुर्जनलोलजिह्वा- मूले स्म निक्षिपति चेत् सकलोपकारः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0