महासुभाषितसंग्रह · श्लोक 9135-9154
कश्चित् कस्यचिदेव स्यात् सुहृद् विश्रम्भभाजनम् ।
पद्मं विकासयत्यर्कः संकोचयति कैरवम् ॥
कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥
कश्चित् क्रन्दति कालकर्कशकराकृष्टं विनष्टं हठाद् उत्कृष्टं तनयं विलोक्य पुरतः पुत्रेति हा हा क्वचित् ।
कश्चिन्नर्तकनर्तकीपरिवृतो नृत्यत्यहो कुत्रचिच् चित्रं संसृतिपद्धतिः प्रथयति प्रीतिं च कष्टं च नः ॥
कश्चित् तरति काष्ठेन सुगम्भीरां महानदीम् ।
स तारयति तत् काष्ठं स च काष्ठेन तार्यते ॥
कश्चित् तावत् त्वया दृष्टः श्रुतो वा शङ्कितोऽपि वा ।
क्षितौ वा यदि वा स्वर्गे यस्य मृत्युर् न विद्यते ॥
कश्चित् पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया ।
विदधाति स्माराधन- मधनत्वमुपागतः कामी ॥
कश्चित् पान्थस् तृषार्तः पथि तपऋतौ गम्यमानोऽन्यपान्थं पप्रच्छानन्दलीनो वद पथिक कुतो जह्नुकन्याप्रवाहः ।
तेनासौ शीघ्रवाचा प्रचलितमनसा विप्रवर्येण चोचे सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः ॥
कश्चित् पुमान् क्षिपति मां प्रति रूक्षवाक्यैः सोऽहं क्षमाभरणमेत्य मुदं प्रयामि ।
शोकं व्रजामि पुनरेवमयं तपस्वी चारित्रतः स्खलितवानिति मन्निमित्तम् ॥
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निपिञ्चति ।
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥
कश्चिदाश्रयसौन्दर्याद् धत्ते शोभामसज्जनः ।
प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥
कश्चिद् दैवेन सौमित्रे योद्धुमुत्सहते पुमान् ।
यस्य न ग्रहणं किंचित् कर्मणोऽन्यत्र दृश्यते ॥
कश्चिद् दैवेन सौमित्रै योद्धुमुत्सहते सह ।
यस्येह विग्रहोपायो न कथंचन विद्यते ॥
कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥
कश्चिद् यथाभागमवस्थितेऽपि स्वसंनिवेशाद् व्यतिलङ्घिनीव ।
वज्रांशुगर्बाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥
कश्चिद् वाचं रचयितुमलं श्रोतुमेवापरस् ताम् कल्याणी ते मतिरुभयतो विस्मयं नस् तनोति ।
न ह्येकस्मिन्नतिशयवतां संनिपातो गुणानाम् एकः सूते कनकमुपलस् तत्परीक्षाक्षमोऽन्यः ॥
कश्चिन् नवं पल्लवमाददाति कश्चित् प्रसूनानि फलानि कश्चित् ।
परं करालेऽस्य निदाघकाले मूले न दाता सलिलस्य कश्चित् ॥
कश्चिन् मालासमं मित्रं कश्चिन् मित्रं तुलासमम् ।
कश्चिन् मेरुसमं मित्रं कश्चिन् मित्रं महीसमम् ॥
कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।
उच्छश्वास प्रस्थिता तं जिघृक्षुर् व्यर्थाकूता नाकनारी मुमूर्च्छ ॥
कश् चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ।
चारभटचौरचेटक- नटविटनिष्ठीवनशरावम् ॥
कश्मीरान् गन्तुकामस्य मीरशाहाख्यभूपतेः ।
शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0