महासुभाषितसंग्रह · श्लोक 9095-9114
कवयो वद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः ।
अधुना तव वैरियोषितां हृदि तापः प्रबलो विहाय काः ॥
कवलयसि चन्द्रदीधिती- र्नविरलमश्नासि नूनमङ्गारान् ।
अधिकतरमुष्णमनयोः किमिह चकोरावधारयसि ॥
कवलितमिह नालं कन्दलं चेह दृष्टम् इह हि कुमुदकोशे पीतमम्भः सुशीतम् ।
इति विरटति रात्रौ पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥
कविः करोति काव्यानि पण्डितो वेत्ति तद्रसम् ।
कामिनीकुचकाठिन्यं पतिर्जानाति नो पिता ॥
कविः करोति काव्यानि स्वादु जानाति पण्डितः ।
सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता ॥
कविः करोति पद्यानि लालयत्युत्तमो जनः ।
तरुः प्रसूते पुष्पाणि मरुद् वहति सौरभम् ॥
कविः पिता पोषयति पालको रसिकः पतिः ।
कवितायुवतेर्नूनं सोदरास् तु विवेकिनः ॥
कविः सूयति काव्यानि हृदा दधति सज्जनाः ।
सूते मुक्ताः पयोराशिर् वहन्ति तरुणीस्तनाः ॥
कविताकलनेन किं नृपाणां यदि कवयो न लभन्ति पूर्णकामाः ।
नयनेन किमेणलोचनानां यदि वक्रं न विलोकिता युवानः ॥
कविताकुन्दविकासन- कृतिने विजितजनतानिदाघाय ।
दलितोद्दामाघाय प्रणतिं कलयामि माघाय ॥
कविता वनिता कस्य न मोदाय सचेतसः ।
रस एव सदा तस्या नरीनर्तीव सर्वतः ॥
कवित्वं न शृणोत्येव कृपणः कीर्तिवर्जितः ।
नपुंसकः किं कुरुते पुरःस्थितमृगीदृशा ॥
कवित्वगानप्रियवादसत्या- न्यस्या विधाता व्यधिताधिकण्ठम् ।
रेखात्रयन्यासमिषादमीषां वासाय सोऽयं विबभाज सीमाः ॥
कवित्वप्रोद्गुम्फश्रवणकृतझम्पव्यतिकरं चिरं येषां स्वान्तं समजनि नितान्तं रसवशम् ।
अमीषां पीयूषापचितसुरयोषाधरपुटो- ल्लसन्माधुर्ये वा समुदयति किं वा रतिरपि ॥
कवित्वमारोग्यमतीव मेधा स्त्रीणां प्रियत्वं कनकस्य लाभः ।
सर्वेषु तथ्यं स्वजनेषु पूजा स्वर्गस्थितानां किल चिह्नमेतत् ॥
कवित्वशक्तिर्हि दिवोऽवतीर्णा भूमौ सुधासार इवार्यपुण्यात् ।
पुनर्ग्रहीतुं निजवस्तु देवाः समागतास्तत् कवयः समुत्काः ॥
कवित्वे वादित्वं कनककुसुमे सौरभगुणो धनित्वे दातृत्वं विषमतरुफले स्वादुरसता ।
कुलीने सौजन्यं मृगमदरसे रागरचना प्रभुत्वे विद्वत्त्वं परभृतमुखे मानुषवचः ॥
कविभावकृतं चिह्नम् अन्यत्रापि न दुष्यति ।
मुखमिष्टार्थसंसिद्धं किं हि न स्यात् कृतात्मनाम् ॥
कविभिर्नूपसेवासु चित्रालंकारहारिणी ।
वाणी वेश्येव लोभेन परोपकरणीकृता ॥
कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव ।
हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ॥
कविरनुहरति च्छायां पदमेकं पादमेकमर्धं वा ।
सकलप्रबन्धहर्त्रे साहसकर्त्रे नमस् तस्मै ॥
कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च ।
अन्ये कवयः कपयश् चापलमात्रं पदं दधति ॥
कविरविमहोत्कर्षान् हर्षन् प्रपञ्चय पञ्चषान् स्खलसि रसने किं वा सर्वान् प्रवक्तुमनीश्वरे ।
गणयति यदप्येतान् धाता दिनावलिमालया तदपि भगवानेषामन्तं कदापि न विन्दति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0