महासुभाषितसंग्रह · श्लोक 9115-9134
कविरहिताः कविलापा जायन्ते कण्ठशोषणायैव ।
संमुखगतः कविश्चेत् भवति कुलपितापि कविकुलपितैव ॥
कविरेव कवेर्वेत्ति काव्यकर्मणि कौशलम् ।
शेषाहिरेव जानाति भुवो भारस्य निश्चयम् ॥
कविर्भारद्वाजो जगदवधिजाग्रन्निजयशा रसश्रेणीमर्मव्यवहरणहेवाकरसिकः ।
यदीयानां वाचां रसिकहृदयोल्लासनविधा- वमन्दानन्दात्मा परिणयति सन्दर्भमहिमा ॥
कविवाक्यामृततीर्थ- स्नानैः पूता भृशं यशोदेहाः ।
येषां त एव भूपा जीवन्ति मृता वृथैवान्ये ॥
कविविद्यादुराधर्षो यो राक्षस इवापरः ।
दक्षिणस्थो लब्धवर्णो विख्यातः कविराक्षसः ॥
कविषु दधतमुत्कर्षं विस्फुरदनवद्यहृद्यवाग्वर्षम् ।
इह खलु खलप्रधर्षं श्रीहर्षं नौमि हर्षसंघर्षम् ॥
कविहृदयेष्वनसूया कस्तूरीकर्दमेष्वमालिन्यम् ।
अक्षारता पयोधा- ववनीपालेषु पाण्डित्यम् ॥
कवीनां च बुधानां च वदान्यानां च यो गुरुः ।
नानाशास्त्रचणप्रज्ञः शिवनाथः स नम्यते ॥
कवीनां महतां सूक्तैर् गूढार्थान्तरसूचिभिः ।
विध्यमानश्रुतेर्माभूद् दुर्जनस्य कथं व्यथा ॥
कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि ।
यत्र हंसवयांसीव भुवनानि चतुर्दश ॥
कवीनां संतापो भ्रमणमभितो दुर्गतिरिति त्रयाणांपञ्चत्वं रचयसि न तच् चित्रमधिकम् ।
चतुर्णां वेदानां व्यरचि नवता वीर भवता द्विषत्सेनालीनाभयुतमपि लक्षं त्वमकृथाः ॥
कवीनामगलद् दर्पो नूनं वासवदत्तया ।
शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥
कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम् ।
चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः ॥
कवीन्द्राणामासन् प्रथमतरमेवाङ्गणभुवश् चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुराः ।
अमी पश्चात् तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः ॥
कवीश्वराणां वचसां विनोदैर् नन्दन्ति विद्यानिधयो न चान्ये ।
चन्द्रोपला एव करैः सुधांशोर् द्रवन्ति नान्या दृषदः कदाचित् ॥
कवेरभिप्रायमशब्दगोचरं स्फुरन्तमार्द्रेषु पदेषु केवलम् ।
वदद्भिरङ्गैः कृतरोमविक्रियैर् जनस्य तूष्णीं भवतोऽयमञ्जलिः ॥
कशाभिरिव हैमीभिर् विद्युद्भिरभिताडितम् ।
अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम् ॥
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।
आयतिस्थं चरेद् धर्म क्षत्रबन्धुरनिश्चितम् ॥
कश्चिच् छस्त्रापातमूढोऽपवोढुर् लब्ध्वा भूयश्चेतनामाहवाय ।
व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस् त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥
कश्चित् कराभ्यामुपगूढनालम् आलोलपत्राभिहतद्विरेफम् ।
रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥
कश्चित् कष्टं किरति करकाजालमेकोऽतिमात्रं गर्जत्येव क्षिपति विषयं वैद्युतं वह्निमन्यः ।
सूते वातं जवनमपरस्तेन जानीहि तावत् किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0