भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9075-9094

9075

कल्याणानां त्वमसि महसां भाजनं विश्वसूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद ।
यद् यत् पापं प्रतिजहि जगन्नाथ नम्नस्य तन् मे भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय ॥

9076

कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन् मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥

9077

कल्याणानि ददातु वो गणपतिर्यस्मिन् नु तुष्टे सति क्षोदीयस्यपि कर्मणि प्रभवितुं ब्रह्मापि जिह्मायते ।
जाते यच्चरणप्रणामसुलभे सौभाग्यभाग्योदये रङ्कस्याङ्कमनङ्कुशा निविशते देवेन्द्रलक्ष्मीरपि ॥
कल्याणायभवन्तु खण्डपरशोः कोटीरवाटीरुहां वल्लीनां वलयानि वेल्लदुरगश्रेणीनि शोणत्विषाम् ।
उन्मीलत्कनकारविन्दकलिकाकिञ्जल्कपुञ्जक्षरद्- धूलीधूसरसिद्धसिन्धुलहरीसिन्दूरितेन्दूनि वः ॥

9078

कल्याणि चन्दनरसैः परिषिच्य गात्रं द्वित्राण्यहानि कथमप्यतिवाहयेथाः ।
अङ्के निधाय भवतीं परिरभ्य दोर्भ्यां नेष्यामि सूर्यकिरणानपि शीतलत्वम् ॥

9079

कल्याणि पाणिपतितानि विना विचारम् एतानि मोक्तुमुचितानि न मौक्तिकानि ।
गुञ्जेति संजनयते यदिह भ्रमन्ते हस्तारविन्दनयनोत्पलयोः प्रभैव ॥

9080

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥

9081

कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित् साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा ।
सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥

9082

कल्योत्थानपरा नित्यं गुरुशुश्रूषणे रता ।
सुसंमृष्टगृहा चैव गोशकृत्कृतलेपना ॥

9083

कल्लोलक्षिप्तपङ्कत्रिपुरहरशिरःस्वःस्रवन्तीमृणालं कर्पूरक्षोदजालं कुसुमशरवधूसीधुभृङ्गारनालम् ।
एतद् दुग्धाब्धिबन्धोर्गगनकमलिनीपत्रपानीयबिन्दोर् अन्तस् तोषं न केषां किसलयति जगन्मण्डनं खण्डमिन्दोः ॥
कल्लोलचपला लक्ष्मीः संगमाः स्वप्नसन्निभाः ।
वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥

9084

कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः ।
किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥

9085

कल्लोलसंचलदगाधजलैरलोलैः कल्लोलिनीपरिवृढैः किमपेयतोयैः ।
जीयात् स जर्जरतनुर्गिरिनिर्झरोऽयं यद्विप्रुषापि तृषिता वितृषीभवन्ति ॥

9086

कल्लोलैः स्थगयन् मुखानि ककुभामभ्रंलिहैरम्भसा क्षारेणापि दिवानिशं जलनिधे गर्जन् न विश्राम्यसि ।
एतत्ते यदि घोरनक्रनिलयं स्वादु व्यधास्याद् विधिः किं कर्तासि तदा न वेद्मि तरलैः स्वैरेव दुश्चेष्टितैः ॥

9087

कल्लोलैर्विकिरत्वसौ गिरिवरान् वेलाविलासोत्थितैः शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णताम् ।
पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः किं साम्यं प्रतनोः करोतु सरसोऽप्यब्धिः कृताडम्बरः ॥

9088

कवयः कवयन्तु तैलभुक्ताः सरसा एव परन्तु दाक्षिणात्याः ।
अपि लोचनचञ्चला हरिण्यो मदिराक्ष्या न समाः कटाक्षपातैः ॥

9089

कवयः कालिदासाद्याः कवयो वयमप्यमी ।
पर्वते परमाणौ च वस्तुत्वमुभयोरपि ।

9090

कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
प्रमदाः किं न कुर्वन्ति किं न जल्पन्ति मद्यपाः ॥

9091

कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥

9092

कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः ।
नह्यकूपारवत् कूपा वर्धन्ते विधुकान्तिभिः ॥

9093

कवलयति न चेतस् तस्य दारिद्र्यदुःखं न च पिशुनजनोक्तिः कर्णकण्डूं करोति ।
वरकविकृतगोष्ठीबन्धगन्धोपभोगे य इह मधु वमन्तीं काव्यचिन्तां करोति ॥

9094

कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः ।
नृत्यति पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc