महासुभाषितसंग्रह · श्लोक 9015-9034
कलारत्नं गीतं गगनतलरत्नं दिनमणिः सभारत्नं विद्वान् श्रवणपुटरत्नं हरिकथा ।
निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी महीरत्नं श्रीमाञ्जयति रघुनाथो नृपवरः ॥
कलावतः सैव कला ययाधःक्रियते भवः ।
बह्वीभिश्च कलाभिः किं याभिरङ्कः प्रदर्श्यते ॥
कलावति क्षततमसि प्रभावति स्फुटोदये जननयनाभिनन्दिनि ।
ददुर्दूशं शशिनि रुषाभिसारिकाः क्वचिद् भवत्यतिसुभगोऽपि दुर्भगः ॥
कलावति चलां दृष्टिं न कुर्यास् त्वं मुहुर्मुहुः ।
लग्नोऽपि न तथा बाणो बाधते चालितो यथा ॥
कलासीमा काव्यं सकलगुणसीमा वितरणं भये सीमा मृत्युः सकलसुखसीमा सुवदना ।
तपःसीमा मुक्तिः सकलकृतिसीमाश्रितभृतिः प्रिये सीमाह्लादः श्रवणसुखसीमा हरिकथा ॥
कला सेवाथ धर्मार्थौ तृष्णादारिद्र्यपद्धती ।
सन्तोषक्षान्तिकरुणा वैराग्यं तदनु स्तुतिः ॥
कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपतिर् द्युतिस् तादृग्नूत्ना जनिरपि च रत्नाकरकुले ।
बहु ब्रूमः किं वा पुरहरशिरोमण्डनमसि त्वदीयं तत् सर्वं शशधर कलङ्काद् विफलितम् ॥
कलिकलुषसङ्कटाकुल- कुटुम्बसंवलनखेदविकलस्य
प्रतिनिधिरिव प्रवासः संसारविरागसुखसमुद्रस्य ॥
कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभते ।
चक्षुर्दोषे जाग्रति चन्द्रद्वित्वं कुतो यातु ॥
कलिकालमियं यावद् अगस्त्यस्य मुनरेपि ।
मानसं खण्डयत्यत्र शशिखण्डानुकारिणी ॥
कलितगरिमा श्रोणिर्मध्यं विवृद्धवलित्रयं हृदयमुदयल्लज्जं मज्जच्चिरन्तनचापलम् ।
मुकुलितकुचं वक्षश्चक्षुर्मनाग्धृतवक्रिम क्रमपरिगलद्बाल्यं तस्या वपुस् तनुते श्रियम् ॥
कलितमम्बरमाकलयन् करैर् मृदितपङ्कजकोशपयोधरः ।
विकसदुत्पलनेत्रविलोकितः सखि निशां सरसीकुरुते विधुः ॥
कलितो रुचिरं न कर्म चेत् क्रियतेऽनङ्गकृतेः कुतः फलम् ।
स्मरतो हृदि पुण्डरीकदृग् भजतेऽसौ सफलस् ततः श्रमः ॥
कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन् सदा पथि गतागतश्रमभरं हरन् प्राणिनाम् ।
लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितमां तमालद्रुमः ॥
कलिन्दजानीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः ।
ध्वान्तेन वैराद् विनिगीर्यंमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ॥
कलिभूपे समायाते धर्मोऽधर्मायते भुवि ।
अधर्मः सर्वंतः पुंसां हन्त धर्मवदर्थ्यते ॥
कलिमायान्तमुत्प्रेक्ष्य विलीयन्ते सुरा अपि ।
तदाश्रितस्य धर्मादेः का कथा जीवने पुनः ॥
कलिलं चैकरात्रेण पञ्चरात्रेण बुद्बुदम् ।
पक्षैकेनाण्डकः सोऽथ मासपूर्णे शिरो कुरु ॥
कलिसाम्राज्यमासाद्य न भेतव्यं भवान्तरात् ।
धर्मानुष्ठानमूढावां भीतिरेकावशिष्यते ॥
कलुषं कटुकं लवणं विरसं सलिलं यदि वाशुभगन्धि भवेत् ।
तदनेन भवत्यमलं सुरसं ससुगन्धि गुणैरपरैश्च युतम् ॥
कलुषं च तवाहितेष्वकस्मात् सितपङ्केरुहसोदरश्रि चक्षुः ।
पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0