महासुभाषितसंग्रह · श्लोक 8995-9014
कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्रं द्वेषदस्युप्रदोषः ।
सुकृतवनदवाग्निर्मार्दवाम्भोदवायुर् नयनलिनतुषारोऽत्यर्थमर्थानुरागः ॥
कलहकलया यत् संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूश्चकर्ष न कञ्चुकम् ।
दयितमभितस्तामुत्कण्ठां विवव्रुरनन्तरं झटिति तटिति त्रुट्यन्तोऽन्तः स्तनांशुकसन्धयः ॥
कलहप्रियातिदीर्घा खर्वा वा श्यामपीतहरिता वा ।
लम्बोष्ठी लघुनासा लघुशिथिलस्तनविभागा च ॥
कलहमातनुते मदिरावशस् तमिह येन निरस्यति जीवितम् ।
वृषमपास्यति संचिनुते मलं धनमपैति जनैः परिभूयते ॥
कलहान्तरिताप्रलपनम् अतः परं नायकस्य शिक्षा च ।
संभोगाविष्करणं कुलटा संकीर्णमिति च शृङ्गारः ॥
कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् ।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥
कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति ।
तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायाम् ॥
कलां तामैन्दवीं वन्दे यया यादष्पतिः पिता ।
आरुह्य हरमूर्धानं कृतस् त्रैलोक्यमूर्धनि ॥
कलाः सर्वे हरेरेव सप्रजापतय्स् तथा ।
एते त्वंशकलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥
कलाकलापसम्पन्ना उपकर्तुः परञ्मुखाः ।
न भवन्ति महात्मानः सरसः शिखिनो यथा ॥
कलाकाष्ठामुहूर्तानां कालस्य व्रजतां जवात् ।
न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥
कलात्तमायालवकान्तमूर्तिः कलक्वणद्वेणुनिनादरम्यः ।
श्रितो हृदि व्याकुलयंस्त्रिलोकीं श्रियेऽस्तु गोपीजनवल्लभो वः ॥
कलाधारो वक्रः स्फुरदधररागो नवतनुर् गलन्मानावेशास्तरुणरमणीर्नागर इव ।
घनश्रोणीबिम्बे नयनमुकुले चाधरदले कपोले ग्रीवायां कुचकलशयोश्चुम्बति शशी ॥
कलाधिनाथाधिगमाद् द्वितीये किमद्वितीयेति तनोषि गर्वम् ।
अयि त्वमस्मद्वचसि प्रतीया अयं तृतीयामुपगन्तुकामः ॥
कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एव भृङ्गः ।
किमिन्दुनालिङ्ग्य सरागमङ्के कृतः कलङ्कभ्रममातनोति ॥
कलानां ग्रहणादेव सौभाग्यमुपजायते ।
देशकालौ त्वपेक्ष्यासां प्रयोगः संभवेन्न वा ॥
कलानाथः कामं भजति बहुदोषाङ्किततनुं कुमुद्वत्यास्तस्मिन्नपि भवति किं नाम न रुचिः ।
न पद्मिन्या मोदः किमुदयत्युष्णमहसि प्रिये प्रायो दोषान् न गणयति चित्तं मृगदृशः ॥
कलानिधिकरस्पर्शात् प्रसन्नोल्लासितारका ।
बिम्रणाम्बरमानीलं कामिनी यामिनीयते ॥
कलानिधिरयं रवेः समुपलभ्य रूपं स्वयं दिनान्तसमयेऽस्पृशत् सपदि पद्मिनीं रागवान् ।
धवान्यकरसंगमान्मुकुलितेति पूर्वाकृतिं समीक्ष्य जहसुः प्रिया ध्रुवमभूदतः पाण्डुरः ॥
कलापिनां चारुतयोपयान्ति वृन्दानि लापोढघनागमानाम् ।
वृन्दानिलापोढघनागमानां कलापिनां चारुतयोऽपयान्ति ॥
कलाभिरुच्छ्रिता वेश्या रूपशीलगुणान्विता ।
लभते गणिकाशब्दं स्थानं च जनसंसदि ॥
कलामिन्दुः करं दाता धारां धाराधरो यदि ।
संकोचयिष्यते तर्हि जीविष्यति कथं जगत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0