भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9035-9054

9035

कलुषं मधुरं चाम्भः सर्वं सर्वत्र सांप्रतम् ।
अनार्जवजनस्येव कृतकव्याहृतं वचः ॥

9036

कलेरन्ते भविष्यन्ति नररूपेण राक्षसाः ।
मनुष्यान् भक्षयिष्यन्ति वित्ततो न शरीरतः ॥

9037

कलेर्दोषनिधे राजन्न् अस्ति ह्येको महान् गुणः ।
कीर्तिनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥
कलौ कराले न सुखं लभेत पक्षद्वयादेव विरोधकाले ।
मध्यस्थता प्रत्युत निन्द्यतेऽपि समन्ततो हा स कले प्रभावः ॥

9038

कलौ कले खले मित्रे पुत्रे दुर्व्यसनान्विते ।
तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥

9039

कलौ गङ्गा काश्यां त्रिपुरहरपुर्यां भगवती प्रशस्ता देवानामपि भवति सेव्यानुदिवसम् ।
इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा- सुधापानस्वस्थो गलितभवबन्धोऽतुलमतिः ॥

9040

कलौ जगपत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् ।
नार्चयिष्यन्ति मैत्रेय पाखण्डोपहता जनाः ॥

9041

कलौ दशसहस्रेषु हरिस्त्यजति मेदिनीम् ।
तदर्धं जाह्लवीतोयं तदर्धं ग्रामदेवताः ॥
कलौ युगे कल्मषमानसानाम् अन्यत्र धर्मे खलु नाधिकारः ।
रामेति वर्णद्वयमादरेण सदा जपन्मुक्तिमुपेति जन्तुः ॥

9042

कल्की कल्कं हरतु जगतः स्फूर्जदूजैस्वितेजा वेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः ।
येनोत्क्षिप्य क्षणमसिलतां धूमवत् कल्मषेच्छान् म्लेच्छान् हत्वा दलितकलिनाकारि सत्यावतारः ॥

9043

कल्पक्षोणिरुहोऽयमित्यनुदिनं भूमीसुरैर्भाव्यसे कामोऽसाविति कामिनीभिरभितश्चित्ते चिरं चिन्त्यसे ।
श्रीनारायण एव केवलमिति प्रेम्णा श्रिया ध्यायसे त्वं कालोऽयमिति प्रतिक्षितिधरैरेकोऽप्यनेकात्मभृत् ॥

9044

कल्पतरुकामदोग्ध्री- चिन्तामणिधनदशङ्खानाम् ।
रचितो रजोभरपयस् तेजःश्चासान्तराम्बरैरेषः ॥

9045

कल्पद्रुमः कल्पितमेव सूते सा कामधुक् कामितमेव दोग्धि ।
चिन्तामणिश्चिन्तितमेव दत्ते सतां हि सङ्गः सकलं प्रसूते ॥

9046

कल्पद्रुमान् विगतवाञ्छजने सुमेरौ रत्नान्यगाधसलिले सरितामधीशे ।
धात्रा श्रियं निदधता प्रखलेषु नित्यम् अत्युज्ज्वलः खलु घटे निहितः प्रदीपः ॥

9047

कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् ।
अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥

9048

कल्पद्रुमैः किं कनकाचलस्थैः परोपकारप्रतिलम्भदुःस्थैः ।
वरं करीरो मरुमार्गवर्ती यः पान्थसार्थं कुरुते कृतार्थम् ॥

9049

कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।
अयं तु जगतीजानिर् जानाति च ददाति च ॥

9050

कल्पद्रुमोऽपि काले न भवेद् यदि फलप्रदः ।
को विशेषस् तदा तस्य वन्यैरन्यमहीरुहैः ॥
कल्पद्रोरपि कल्पद्रुर् महतोऽपि मणेर्मणिः ।
देवानामपि पूज्योऽसि कियत् ते मम पूरणम् ॥

9051

कल्पयति येन वृत्तिं सदसि च सद्भिः प्रशस्यते येन ।
स गुणस् तेन गुणवता विवर्धनीयश्च रक्ष्यश्च ॥
कल्पयेदेकशः पक्ष रोमश्मश्रुकचान्नखान् ।
न चात्मदशनाग्रेण स्वपाणिभ्यां च नोत्तमः ॥

9052

कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरविकल्पसुन्दरि ।
हारयष्टिगणनामिवांशुभिः कर्तुमुद्यतकुतूहलः शशी ॥

9053

कल्पस्थायि न जीवितम् ऐश्वर्यं नाप्यते च यदभिमतम् ।
लोकस् तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य ॥

9054

कल्पान्तक्रूरकेलिः क्रतुकदनकरः कुन्दकर्पूरकान्तिः क्रीडन् कैलासकूटे कलितकुमुदिनीकामुकः कान्तकायः ।
कङ्कालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापालिको नः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc