महासुभाषितसंग्रह · श्लोक 8856-8875
कर्तव्यः संचयो नित्यं न तु कार्योऽतिसंचयः ।
अतिसंचयशीलोऽयं धनुषा जम्बुको हतः ॥
कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ॥
कर्तव्या चार्थसारेऽपि काव्ये शब्दविचित्रता ।
विना घण्टाटणत्कारं गजो गच्छन्न शोभते ॥
कर्तव्यानि च मित्राणि दुर्बलानि बलानि च ।
पश्य कूर्मपतिर्बद्धो मूषिकेण विमोचितः ॥
कर्तव्यान्येव मित्राणि सबलान्यबलानि च ।
हस्तियूथं वने बद्धं मूषकैर्यद् विमोचितम् ॥
कर्तव्ये साहसं नित्यम् उत्कटं हि विगर्हितम् ।
अतिसाहसदोषेण भीमः सर्पवशं गतः ॥
कर्तव्यो गुणसंग्रहः परिहते देयं निजं मानसं श्रोतव्यं वचनामृतं जिनवचः कार्यं यथास्थानवत् ।
दातव्यं यतिपुङ्गवेषु निजकं न्यायप्रकल्प्यं धनं श्रद्धेयं सततं सतां सुचरितश्रेयस्करोऽयं विधिः ॥
कर्तव्योऽप्याश्रयः श्रेयान् फलं भाग्यानुसारतः ।
नीलकण्ठस्य कण्ठेऽपि वासुकिर्वायुभक्षकः ॥
कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः ।
संबन्धो बन्धुभिः श्रेयान् लोकयोरुभयोरपि ॥
कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस् तदा मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः ।
शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां कस्मै किं हितमाचरिष्यसि परीतापस् तु ते स्थास्यति ॥
कर्ता कारयिता चैव प्रेषको ह्यनुमोदकः ।
सकृतं दुष्कृतं चैव चत्वारः समभागिनः ॥
कर्ता कारयिता चैव यश्चैवमनुमन्यते ।
शुभं वा यदि वा पापं तेषामपि समं फलम् ।
कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽतिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत् पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रुष्टुमभ्यागतौ स्वः ॥
कर्तुं त्रिलोचनादन्यो न पार्थविजयं क्षमः ।
तदर्थः शक्यते द्रष्टुं लोचनद्वयिभिः कथम् ॥
कर्तुमकर्तुं शक्तः सकलं जगदेतदन्यथाकर्तुम् ।
यस्तं विहाय रामं कामं मा धेहि मानसान्यस्मिन् ॥
कर्तुमिष्टमनिष्टं वा कः प्रभुर्विधिना विना ।
कर्तारमन्यमारोप्य लोकस् तुष्यति कुप्यति ॥
कर्दमवदात्मवैभवम् उल्लास्य च मानवीं प्रजां सुचिरम् ।
तपनोत्तापप्लुष्टं स्ववपुः कृत्वा गतं सरसा ॥
कर्पासबीजमज्जानां चूर्णं तैलेन पाचयेत् ।
तेन संजायते पुष्पं युवतीनां चिराद् गतम् ॥
कर्पासभस्मतक्रास्थिवर्जं सर्वं सितं शुभम् ।
गोवाजिगजदेवर्षिवर्जं कृष्णं तु निन्दितम् ॥
कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः ।
तत्सौधानां परिसरभुवि त्वत्प्रसादादिदानीं क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ॥
कर्पूरं चन्दनं कुष्ठं तुलसी सर्जसंभवम् ।
मुस्तं शिलारसं चैव धत्तूरमगुरुस् तथा ॥
शेफाली शतपुष्पा च सर्षपास्तगरं गुडः ।
तथा रुद्रजटा सर्वम् एतदेकत्र कारयेत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0