महासुभाषितसंग्रह · श्लोक 8836-8855
कर्णे तत् कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया वदन्ति करुणं यस्मात् त्रपावान् भवेत् ।
श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृद् ये केचिन् ननु शाठ्यमौग्ध्यनिधयस् ते भूभृतां रञ्जकाः ॥
कर्णे ताटङ्कलक्ष्मीमुरसि मकरिकापत्रमूरौ दुकूलं सव्येऽर्धे दक्षिणे च द्विरसनभसितव्यालकृत्तीर्दधानः ।
कण्ठे निःसीमशीर्षस्रजमथ विदधद्वीक्षितः शैलपुत्र्या सभ्रूविक्षेपमन्तःस्मितललितमुखो भूतभर्तावताद् वः ॥
कर्णे तालदलं तनौ मलयजं कर्पूरवासोंऽशुके चूले गुम्फितकेतकीदलभरः कण्ठे नवैकावली ।
वासः श्रीवनवाससीमनि वचश्रीः सत्कवेरुक्तयो वक्त्रे नागरखण्डमस्तु पुरतः प्रेमाकुलाः कुन्तलाः ॥
कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् ।
जीवितमरक्षि पार्थैः स्वात्मानं सर्वतो रक्षेत् ॥
कर्णेन निर्जितोऽस्मीति चिन्तां चिन्तामणे त्यज ।
जिता देवद्रुमाः पञ्च न दुःखं पञ्चभिः सह ॥
कर्णे बद्धा रवौ श्वेततुरंगरिपुमूलिका ।
सर्वज्वरहरा श्वेतमन्दारस्य च मूलिका ॥
कर्णे यन्न कृतं सखीजनवचो यन्नादृता बन्धुवाक् यत् पादे निपतन्नपि प्रियतमः कर्णोत्पलेनाहतः ।
तेनेन्दुर्दहनायते मलयजालेपः स्फुलिङ्गायते रात्रिः कल्पशतायते बिसलताहारोऽपि भारायते ॥
कर्णेऽवतंसयितुमर्पयितुं शिखासु माष्टुं रतिश्रमजलं चषके निधातुम् ।
कण्ठे गुणं रचयितुं वलयान् र्विधातुं स्त्रीणां मनोऽतिलुलुभे शशिनः करेषु ॥
कर्णोत्तंसः शिशुशुकवधूपिच्छलीलं शिरीषं सान्तःसूत्राः परिमलमुचो मल्लिकानां च हाराः ।
मुक्तागौरैर्वलयरचनाकन्दलाग्रैर्बिसानां ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनाम् ॥
कर्णोत्तालितकुन्तलान्तनिपतत्तोयक्षणासङ्गिना हारेणेव वृतस्तनी पुलकिता शीतेन सीत्कारिणी ।
निर्धौताञ्जनशोणकोणनयना स्नानावसानेऽङ्गना प्रस्यन्दत्कबरीभरा न कुरुते कस्य स्पृहार्द्रं मनः ॥
कर्णोत्पलं कटाक्षाः कान्तिस्ते कनककञ्चुकविशेषः ।
हसितानि सिन्धुकन्ये हारास्स्तनशैलनिर्झंरविहाराः ॥
कर्णोत्पलान्नयनमपि गतिच्युतात्ते तन्मीलने मुखमयं न जहाति भृङ्गः ।
येनैवमद्य विनिवारयसि प्रमत्ते तस्मिन् करेऽपि न किमम्बुजसाम्यदोषः ॥
कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युतिनिर्जितेन ।
यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ॥
कर्णोत्सङ्गविसर्पिणी नयनयोः कान्तिर्वतंसोत्पलं लाक्षासंभ्रमनिर्व्यपेक्षमधरं लावण्यमेवाञ्चति ।
हारोऽस्याः स्मितचन्द्रिकैव कुचयोरङ्गप्रभा कञ्चुकी तन्व्याः केवलमङ्गभारमधुना मन्ये परं भूषणम् ॥
कर्णौ तावत् कुवलयदृशां लोचनाम्भोरुहाभ्याम् अभ्याक्रान्तौ कनकरुचिरो भालदेशोऽपि नेयः ।
इत्याशङ्काकुलितमनसा वेधसा कज्जलौघैः सीमारेखा व्यरचि निबिडभ्रूलताकैतवेन ॥
कर्णौ सपत्न्यः प्रविशालयेयुर् विशालयेयुर्न कदापि नेत्रे ।
विद्या सदभ्यासवशेन लभ्या सौजन्यमभ्यासवशादलभ्यम् ॥
कर्तव्यं जिनवन्दनं विधिपरैर्हर्षोल्लसन्मानसैः सच्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा साधवः ।
श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्नाशनं दानादौ व्रतपालने च सततं कार्या रतिः श्रावकैः ॥
कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः ।
एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ॥
कर्तव्यं न करोति बन्धुभिरपि स्नेहात्मभिर्बोधितः कामित्वादवमन्यते हितमतं धीरोऽप्यभीष्टं नरः ।
निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद् दृश्यते यत्तस्मादिदमेव मूलमखिलानर्थस्य निर्धारितम् ॥
कर्तव्यं भूमिपालेन शरणागतरक्षणम् ।
कपोतरक्षणं श्येनात् कृत्वा कीर्तिं शिबिर्गतः ॥
कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
... ... ... ... ... ... ॥
कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः स्वल्पोऽपि व्रतनियमोपवासधर्मः ।
प्राणेषु प्रहरति नित्यमेव मृत्युर् भूतानां महति कृतेऽपि हि प्रयत्ने ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0