भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1564-8894

1564

(अनेन योगराजेन धूपिताम्बरभूषणः ।
धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशम् ॥)

8876

कर्पूर इव दग्धोपि शक्तिमान् यो जने जने ।
नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥

8877

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

8878

कर्पूरचन्दनरजो धवलं वहन्तीम् आश्यानचन्दनविलेपनमङ्गमङ्गम् ।
अन्तर्गतस्य दहती महतः स्मराग्नेर् दग्धस्य संक्षयवशादिव भस्मशेषम् ॥

8879

कर्पूरद्रवशीकरोत्करमहानीहारमग्नामिव प्रत्यग्रामृतफेनपङ्कपटलीलेपोपदिग्धामिव ।
स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तामिव क्ष्मामिमां कुर्वन् पार्वणशर्वरीपतिरसावुद्दाममुद्द्योतते ॥

8880

कर्पूरधूलिधवलद्युतिपूरधौत- दिङ्मण्डले शिशिररोचिषि तस्य यूनः ।
लीलाशिरोंऽशुकनिवेशविशेषकॢप्ति- व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥
कर्पूरधूलीरचितालवालः कस्तूरिकाकल्पितदोहदश्रीः ।
हिमाम्बुपूरैरभिषिच्यमानः प्राञ्चं गुणं मुञ्चति किं पलाण्डुः ॥

8881

कर्पूरधूलीरचितालवालः कस्तूरिकाकुङ्कुमलिप्तदेहः ।
सुवर्णकुम्भैः परिषिच्यमानो निजं गुणं मुञ्चति किं पलाण्डुः ॥

8882

कर्पूरन्तकि केतकन्तकि शरद्राकाशशाङ्कन्तकि श्रीचन्द्रन्तकि चन्दनन्तकि सुधासाराच्छपूरन्तकि ।
कैलासन्तकि दुग्धसागरलसत्स्वच्छाच्छदुन्धन्तकि श्रीशम्भुन्तकि कीर्तयस् तव विभो दर्वीकरेन्द्रन्तकि ॥

8883

कर्पूरन्ति सुधाद्रवन्ति कमलाहासन्ति हंसन्ति च प्रालेयन्ति हिमालयन्ति करकासारन्ति हारन्ति च ।
त्रैलोक्याङ्गनरङ्गलङ्घिमगतिप्रागल्भ्यसंभावित् आः शीतांशोः किरणच्छटा इव जयन्त्येतर्हि तत्कीर्तयः ॥

8884

कर्पूरपूरच्छविवादविद्या- संवावदूकद्युतिशुक्तिताम्रे ।
इन्दौ नृपद्वेषि तमोवितानं सूर्योदये रोदिति चक्रवाकी ॥

8885

कर्पूरपूरतुलनां कलयन्ति कीर्तेः श्रीरामचन्द्र तव यत् कवयः कथं तत् ।
त्वद्वैरिणामतितरामपकीर्तितोऽस्याः स्याद् धूसरत्वमिति तत्र वयं प्रतीमः ॥

8886

कर्पूरप्रतिपन्थिनो हिमगिरिग्रावाग्रसंघर्षिणः क्षीराम्भोनिधिमध्यगर्भजयिनो गङ्गौघसर्वंकषाः ।
स्वच्छन्दं हरिचन्दनद्युतितुदः कुन्देन्दुसंवादिनस् तस्यासन्नरविन्दकन्दरुचयोऽनेके गुणाः केचन ॥

8887

कर्पूरभल्लातकशङ्खचूर्णं क्षारो यवानां समनःशिलश्च ।
तैलं विपक्वं हरितालमिश्रं निर्मूललोमानि करोति सद्यः ॥

8888

कर्पूरमिश्रसेहुण्डदुग्धलेपेन जायते ।
शेफसो महती वृद्धिः कठिनस्त्रीसुखावहा ॥

8889

कर्पूरमिश्रेण च कण्टकारी- बीजोद्भवेनैव रसेन लिप्तम् ।
लिङ्गं रते द्रावकरं वधूनां संजायतेऽत्यन्तसुखावहं च ॥

8890

कर्पूर रे परिमलस् तव मर्दितस्य श्रीखण्ड रे परिमलस् तव घर्षितस्य ।
रे काकतुण्ड तव वह्निगतस्य गन्धः कस्तूरिका स्वयमथाधितगन्धदृष्टा ॥

8891

कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कण्ठसुखैकहेतुः ।
चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ॥

8892

कर्पूरादपि कैरवादपि दलत्कुन्दादपि स्वर्णदी- कल्लोलादपि केतकादपि ललत्कान्तादृगन्तादपि ।
दूरोन्मुक्तकलङ्कशंकरशिरःशीतांशुखण्डादपि श्वेताभिस् तव कीर्तिभिर्धवलिता सप्तार्णवा मेदिनी ॥

8893

कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलैर् आस्तीर्णेऽपि विवर्तमानवपुषोः स्रस्तस्रजि स्रस्तरे ।
मन्दोन्मेषदृशेः किमन्यदभवत्सा काप्यवस्था तयोर् यस्यां चन्दनचन्द्रचम्पकदलश्रेण्यादि वह्नीयते ॥

8894

कर्पूरायितसैकताय शिशिरक्षोदायमानातप- व्यूहाय व्यजनानिलायितमहाझञ्झामरुद्रंहसे ।
अस्मै तन्वि निदाघवासरवयोमध्याभिसारक्रमो- त्साहात्युत्सवसाहसाय महते सौहार्दमीहामहे ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc