महासुभाषितसंग्रह · श्लोक 8816-8835
कर्णाग्रन्थितकिंतनुर्नतशिरा बिभ्रज्जराजर्जर- स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् ।
आराद् वीक्ष्य विपक्षमाक्रमकृतक्रोधस्फुरत्कन्धरं श्वा मल्लीकलिकाविकाशिदशनः किंचित् क्वणन् गच्छति ॥
कर्णाग्रे पीडिते येषां सिन्दूराभस्य दर्शनम् ।
शोणितस्य भवेत् क्षिप्रं ते वाह्याश्चिरजीविनः ॥
कर्णाटं देहि कर्णाधिकविधिविहितत्याग लाटं ललाट- प्रोत्तुङ्ग द्राविडं वा प्रचलभुजबलप्रौढिमागाढराढम् ।
प्रस्फूर्जद्गुर्जरं वा दलितरिपुवधूगर्भ वैदर्भकं वा गाजी राजीवदृष्टे कुशशतमथवा शाहजल्लालुदीन ॥
कर्णाटीदशनाङ्कितः शितमहाराष्ट्रीकटाक्षाहततः प्रौढान्ध्रीस्तनपीडितः प्रणयिनीभ्रूभङ्गवित्रासितः ।
लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः सोऽयं संप्रति राजशेखरकविर्वाराणसीं वाञ्छति ॥
कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर् दंष्ट्राकोटिविशङ्कटैरित इतो धावद्भिराकीर्यते ।
विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर्न भो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषामुल्कामु खानां मुखैः ॥
कर्णाभ्यर्णारिशृङ्गक्षतिरुधिररसास्वादनाबद्धगर्ध- ध्वाङ्क्षच्छायात्तभीतिप्रतिहतधवलीवर्गसं वर्धनेच्छः ।
शीलव्याक्रुद्धगोपीलगुडहतिनमत्पृष्ठवंशः कथंचित् प्रातः केदारनीरं कलमदलभिया कूणिताक्षो महोक्षः ॥
कर्णामृतं सूक्रिसं विमुच्य दोषे प्रयत्नः सुमहान् खलानाम् ।
निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ॥
कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक स्वयम् माकन्दं मकरन्दसुन्दरमिदं त्वां कोकिलं मन्महे ।
भव्यानि स्थलसौष्ठवेन कतिचिद् वस्तूनि कस्तूरिकां नेपालक्षितिपालभालतिलके पङ्कं न शङ्केत कः ॥
कर्णारुन्तुदमेव कोकिलरुतं तस्याः श्रुते भाषिते चन्द्रे लोकरुचिस् तदाननरुचेः प्रागेव संदर्शनात् ।
चक्षुर्मीलनमेव तन्नयनयोरग्रे मृगीणां वरं हैमो वल्ल्यपि तावदेव ललिता यावन्न सा लक्ष्यते ॥
कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे ।
तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः ॥
कर्णालङ्करणं कदा कृतमिति स्पर्शः कपोले कृतः कीदृक् कान्तमहो नु कञ्चुकमिति न्यस्तः करो वक्षसि ।
रागः साहजिकः किमेष वदनेऽप्यस्पर्शि बिम्बाधरो मोग्ध्येनैव मृगीदृशि व्यवसितं निर्विघ्नमासीन्मम ॥
कर्णाहतिव्यतिकरं करिणामुपेक्ष्य दानं व्यवस्यति मध्रुव्रत एष तिक्तम् ।
स्मर्तव्यतामुपगतेषु सरोरुहेषु धिग् जीवितव्यसनमस्य मलीमसस्य ॥
कर्णिकादिष्विव स्वर्णम् अर्णवादिष्विवोदकम् ।
भेदिष्वभेदि यत् तस्मै परस्मै महसे नमः ॥
कर्णिकारलताः फुल्लकुसुमाकुलषट्पदाः ।
सकज्जलशिखा रेजुर् दीपमाला इवोज्ज्वलाः ॥
कर्णिकारससौवीरगुप्तां त्रिकटुमाधवीम् ।
यष्टीधान्यगुडक्षीरं दष्टो मत्तशुना पिबेत् ॥
कर्णिनालीकनाराचा निर्हरन्ति शरीरतः ।
वाक्शल्यस् तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥
कर्णे कान्तागमनवचनश्राविणि स्वर्णभूषां तस्यादर्शिन्यकृत नयने श्यामिकामञ्जनेन ।
स्थाप्यः कुत्र प्रिय इति परामृश्य हारावृताङ्के हृत्पर्यङ्के पुलकपटलीतूलिकामास्तृणोति ॥
कर्णें चामरचारुकम्बुकलिका कण्ठे मणीनां गणः सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिके किङ्किणी ।
लब्धश्चेन् नृपवाहनेन करिणा बद्धेन भूषाविधिस् तत् किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥
कर्णेजपः कुटिलमूर्तिरसव्यपाणिर् अग्रेसरस् तदितरस् तव बद्धमुष्टिः ।
तन्मार्गणास् तदपि लक्षममी लभन्ते धानुष्क तत् किमपि कौशलमद्भुतं ते ॥
कर्णेजपा अपि सदा कुटिलस्वभावा दुष्टाशया निरभिसंधितवैरिभूताः ।
सोहार्दहृष्टहृदया मयि सन्तु येषां जिह्वापटुर्विनिमयेषु गुणा गुणानाम् ॥
कर्णेजपानां वचनप्रपञ्चान्- महात्मनः क्वापि न दूषयन्ति ।
भुजङ्गमानां गरलप्रसङ्गान्- नापेयतां यान्ति महासरांसि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0