महासुभाषितसंग्रह · श्लोक 8756-8775
करिष्यते यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस् तपांसि ।
शिलोच्चयं चारुशिलोच्चयं तम् एष क्षणान्नेष्यति गुह्यकस् त्वाम् ॥
करिष्यामि करिष्यामि करिष्यामीति चिन्तया ।
मरिष्यामि मरिष्यामि मरिष्यामीति विस्मृतम् ॥
करिष्येऽवश्यमित्युक्तिः करिष्यन्नपि दुष्यसि ।
दृष्टादृष्टा हि नायत्ताः कार्यीया हेतवस्तव ॥
करी बरीभरीति चेद् दिशं सरीसरीति कां स्थिरीचरीकरीति चेत् न चञ्चरीकरीतिकाम् ।
दरीधरीति केतकं वरीवरीति सारसं जरीजरीति मञ्जरी निरीतिरीतिरीदृशी ॥
करीषमध्ये निहितं तत् सर्वं पञ्चमासकम् ।
द्रवीभूतं ततः सर्वम् उद्धरेत् तेन लेपयेत् ॥
करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः ।
प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः ।
करुणाद्रवमेव दुर्जनः सुतरां सत्पुरुषं प्रबाधते ।
मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक एव जायते ॥
करे कृत्वा तूलं कुचकलशमूलं विदधती स्फुटं वारं वारं तरलयति हारं सुवदना ।
समीचीना मीनायतनयननीलोत्पलदला वितन्वाना तन्तून् विकलयति जन्तूनविकलम् ॥
करे च दक्षिणे व्याधिं हृदि राज्यादिलाभदा ।
पृष्ठे चोपद्रवं हन्त्युदरे मिष्टान्नभोजनम् ॥
करेण कण्डूयति दक्षिणेन यक्षो यदा वामकरं तदानीम् ।
प्रभूतमातङ्गघटासमृद्धं ब्रूते समन्तात् पृथिवीपतित्वम् ॥
करेण करिणा वीरः सुगृहीतोऽपि कोपिना ।
असिनासून् जहाराशु तस्यैव स्वय्मक्षतः ॥
करेण ते रणेष्वन्तकरेण द्विषतां हताः ।
करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ॥
करेण दानं मुनिराददानो भक्तस्य संकेतमिति ब्रवीति ।
लोकद्वयेच्छाफलसंप्रदाने दत्तो मया दक्षिणहस्त एषः ॥
करेण वाञ्छेव विधुं विधर्तुं यमित्थमात्थादरिणी तमर्थम् ।
पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्णं श्रुतेर्वर्ण इवान्तिमः किम् ॥
करेण वातायनलम्बितेन स्पृष्टस् त्वया चण्डि कुतूहलिन्या ।
आमुञ्चतीवाभरणं द्वितीयम् उद्भिन्नविद्युद्वलयो घनस् ते ॥
करेण सलिलार्द्रेण न गण्डौ नापरं करम् ।
नेक्षणे च स्पृशेत् किं तु स्प्रष्टव्ये जानुनी श्रिये ॥
करेणुर्नाहूता निजकवलभागप्रणयिनी न चामृष्टः स्नेहात् करकिसलयेनापि कलभः ।
स येनासौ दर्पात् प्रतिगजजिगीषारभसतः क्रुधा धावन् मग्नो ह्रदपयसि कष्टं करिपतिः ॥
करे दानं हृदि ध्यानं मुखे मौनं गृहे धनम् ।
तीर्थे यानं गिरि ज्ञानं मण्डनं महतामिदम् ॥
करे वामे वासस्तदपरकरे हारलतिकां वहन्त्या बिम्बोष्ठे पतिदशनदत्तव्रणपदम् ।
परिम्लानां मालां शिरसि शशिखण्डं स्तनतटे रतान्तोत्तिष्ठन्त्या जगदपि न मूल्यं मृगदशः ॥
करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य ।
वामेति नामैव बभाज सार्धं पुरन्ध्रिसाधारणसंविभागम् ॥
करे विभाति तन्वङ्ग्या रणद्वलयसंहतिः ।
मनःकुरङ्गबन्धाय पाशालीव मनोभुवः ॥
करे वेणीमेणीसदृशनयना स्नानविरतौ दधाना हर्म्याग्रे हरनयनतेजोहुतमपि ।
इयं मुग्धा दुग्धाम्बुधिबहलकल्लोलसदृशा दृशा वारं वारं मनसिजतरुं पल्लवयति ॥
करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणमता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् ।
हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोर् विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥
करैरुपात्तान् कमलोत्करेभ्यो निजैर्विवस्वान् विकचोदरेभ्यः ।
तस्या निचिक्षेप मुखारविन्दे स्वेदापदेशान्मकरन्दबिन्दून् ॥
करैर्वा प्रमितैर्ग्रामैर् वत्सरे प्रबलं रिपुम् ।
तोषयेत् तद्धि दानं स्याद् यथायोगेषु शत्रुषु ॥
करोति कालः सकलं संहरेत् काल एव हि ।
कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0