महासुभाषितसंग्रह · श्लोक 8736-8755
कराद्गलितखाद्यस्य का हानिः करिणो भवेत् ।
पिपीलिका तु तेनैव बिभर्ति स्वकुटुम्बकम् ॥
करानीतं पटानीतं स्त्रियानीतं तथैव च ।
एरण्डपत्रैरानीतं देवतानां च नार्हति ॥
करान् तिरोधाय तरून्निपीड्य शिला अवस्कन्द्य महीयसोऽपि ।
उज्जृम्भितः कालवशात् तदन्यस् तेषामधस्तात्पुनरेव जातः ॥
कराम्बुजसजत्समाक्षवलया तनुस् तव शुभे जितेन्दुसुषमा ।
छिनत्तु दुरितच्छटां मम नदी तटीमिव चलज्जलोद्धतगतिः ॥
कराम्भोजे कञ्जी मदनमदभञ्जी पदजुषां मनःपुञ्जारञ्जी मधुरमणिमञ्जीरचरणः ।
कलाकूतव्यञ्जी व्रजयुवतिसञ्जी जलमुचां गभीराभागञ्जी मम स परमञ्जीवनधनम् ॥
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं सततं स्मरामि ॥
करालकालरुपेण जनतादुरितापहा ।
तारणी तरिणी भूयाद् अमुना यमुनाम्बुना ॥
करालवाचालमुखाश्चमूखनैर् ध्वस्ताम्बरा वीक्ष्य दिशो रजस्वलाः ।
तिरोबभूवे गहनैर्दिनेश्वरो रजोन्धकारैः वरितः कुतोऽप्यसौ ॥
करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।
पाषाणैस् ताडितः स्वप्ने सद्यो मृत्युं लभेन् नरः ॥
कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी ।
अविचार्य प्रियं कुर्यात् तन् मित्रं मित्रमुच्यते ॥
करा हिमांशोरपि तापयन्तीत्य् एतत् प्रिये चेतसि नैव शङ्क्यम् ।
वियोगतप्तं हृदयं मदीयं तत्र स्थितां त्वां समुपैति तापः ॥
करिकपोलमदोद्धतबुद्धितो मलिनपङ्कजवृन्दमिहाश्रयन् ।
कनकगौरममं नवचम्पकं मधुप चञ्चल मुञ्चसि किं मुधा ॥
करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।
मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः ॥
करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयोऽमी सर्वतो भीषयन्ते ।
चलितशबरसेनादत्तगोशृङ्गचण्ड- ध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥
करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।
कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥
करिकृष्णाश्वगन्धा च नवनीतं च माहिषम् ।
एतेषां मर्दनाल्लिङ्गवृद्धिः संजायते परा ॥
करिणश्च हस्तिकर्णैर् निर्देश्या वाजिनोऽश्वकर्णेन ।
गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥
करिन् मा गर्जोच्चैर्मूगपतिरिहास्तेऽतिनिकटे न दृष्टस्त्वं दैवादपसर सुदूरं द्रुतमितः ।
न किं पश्यस्यग्रे खरनखरनिर्दारितकरि- प्रकीर्णास्थिश्रेणीधवलितमिमं शैलकटकम् ॥
करिमदपरिमलवाही वहति बहिर्गिरिसरित्समीर इति ।
मृदुगर्भान्तर्मावं न जहाति गुहागृहस्य हरिगृहिणी ॥
करिवरमृदितवलीमुख- नलकैर्मूलेषु कीलितस्य तरोः ।
संवत्सरं च यावत् फलिनस्य फलानि जायन्ते ॥
करिष्यति कलानाथः कुतुकी करमम्बरे ।
इति निर्वापयामास रविदीपं निशाङ्गना ॥
करिष्यन् न प्रभाषेत कृतान्येव च दशैयेत् ।
धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0