महासुभाषितसंग्रह · श्लोक 8776-8795
करोऽतिताम्रो रामाणां तन्त्रीताडनविभ्रमम् ।
करोति सेर्ष्यं कान्ते च श्रवणोत्पलताडनम् ॥
करोति दोषं न तमत्र केसरी न दन्दशूको न करी न भूमिपः ।
अतीव रुष्टो न च शत्रुरुद्धतो यमुग्रमिथ्यात्वरिपुः शरीरिणाम् ॥
करोति निर्मलाधारस् तुच्छस्यापि महार्घताम् ।
अम्बुनो बिन्दुरल्पोऽपि शुक्तौ मुक्ताफलं भवेत् ॥
करोति नीडं भुवि चेद् वराही समान्यपत्यानि विजायते वा ।
समुद्भवद्भानुमयूखवह्नौ जाज्वल्यते तज्जगती समस्ता ॥
करोति पापं योऽज्ञानान् नात्मनो वेत्ति च क्षमम् ।
प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥
करोति पुष्पैर्जिननायकस्य पूजं त्रिकालं तनुमान् सदा यः ।
तस्यामरेशावनिनाथचक्र- वर्त्त्यादिलक्ष्मीर्वशगा भवेद् द्राक् ॥
करोति पूज्यमानोऽपि लोकव्यसनदीक्षितः ।
दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥
करोति मांसं बलमिन्द्रियाणां ततोऽभिवृद्धिं मदनस्य तस्मात् ।
करोत्ययुक्तिं प्रविचिन्त्य बुद्ध्या त्यजन्ति मांसं त्रिविधेन सन्तः ॥
करोति यः परद्रोहं जनस्यानपराधिनः ।
तस्य राज्ञः स्थिरापि श्रीः समूलं नाशमृच्छति ॥
करोति योऽशेषजनातिरिक्तां संभावनामर्थवतीं क्रियाभिः ।
संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥
करोति लाभहीनेन गौरवेण किमाश्रितः ।
क्षामस्येन्दोर्गुणं धत्ते कमीश्वरशिरोधृतिः ॥
करोति विरतिं धन्यो यः सदा निशिभोजनात् ।
सोऽर्धं पुरुषायुषस्य स्यादवश्यमुपोषितः ॥
करोति वैरं स्फुटमुच्यमानः प्रतुष्यति श्रोत्रसुखैरपथ्यैः ।
विवेकशून्यः प्रभुरात्ममानी महाननर्थः सुहृदां बतायम् ॥
करोति शोभामलके स्त्रियाः को दृश्या न कान्ता विधिना च कोक्ता ।
अङ्गे तु कस्मिन् दहनः पुरारेः सिन्दूरबिन्दुर्विधवाललाटे ॥
करोति संसारशरीरभोग- विरागभावं विदधाति रागम् ।
शीलव्रतध्यानतपःकृपासु ज्ञानी विमोक्षाय कृतप्रयासः ॥
... ... ... ... ... ... ।
करोति सफलं जन्तोः कर्म यच्च करोति सः ॥
करोति सहकारस्य कलिकोत्कलिकोत्तरम् ।
मन्मनो मन्मनोऽप्येष मत्तकोकिलनिस्वनः ॥
करोति सुहृदां दैन्यम् अहितानां तथा मुदम् ।
अकाले च जरां पित्रोः कुसुतः कुरुते ध्रुवम् ॥
करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् ।
नमः पतनशीलाय मुसलाय खलाय च ॥
करोति हुंहुं शृगिति ध्वनिं यो नेष्टो न दुष्टः स यतो रतार्थी ।
चलश्चलः स्यात् कलहाय शब्दः किकीति दीप्तो गुरुरुग्लुशान्तः ॥
करोति हे दैत्यसुत यावन्मात्रं परिग्रहम् ।
तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥
करोतु करटः शब्दं सर्वदा प्राङ्गणे वसन् ।
न शृणोति बुधः प्रीत्या शृणोति पिकभाषितम् ॥
करोतु तादृशीं प्रीतिं यादृशी नीरपङ्कयोः ।
रविणा शोषिते नीरे पङ्गदेहो विशीर्यते ॥
करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।
फलं पुनस् तदेव स्याद् यद् विधेर्मनसि स्थितम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0