महासुभाषितसंग्रह · श्लोक 8436-8455
कतिषु न कृता सेवा के वा न वाग्विभवैः स्तुतास् तृणमपि गुणप्रीतः प्रादान्न कोऽपि विपश्चिताम् ।
अयमिह परं दुःखज्वालाकलापमखण्डयत् कनकपयसां धारादण्डैरकाण्डघनाघनः ॥
कति सन्ति नोन्नतिभृतस् तरवस् तदपि त्वमेव गुरुकीर्तिवरः ।
निबिडादरं नवमरन्दहरः सहकार कारणमिह भ्रमरः ॥
कति सन्ति लता विपिने कुसुम- स्तवकानमिताः खलु पल्लविताः ।
प्रतिचम्पकचन्दननीपवनी- नवपङ्कजिनीमधुसंवलिताः ॥
सुचिरं कुसुमेषु परिभ्रमता न च मालति कापि तथा मिलिता ।
मधुपेन पुनर्मधुपानविधौ हृदये न यथा भवती कलिता ॥
कति सन्ति लवङ्गलता ललिता नवकोरकिता धरणीसुतले ।
कति बन्धुरगन्धभृतस् तरवो गुरवो निवसन्ति गिरौ मलये ॥
कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः काकोलाः कति पन्नगाः कति सुधाधाम्नश्च खण्डाः कति ।
किं च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे मज्जज्जन्तुकदम्बकं समुदयत्येकैकमादाय यत् ॥
कत्यश्वाः कति धेनवः कति गजाः कत्यद्भुताः पादपाः सुन्दर्यः कति सुस्रुवः कति महारत्नान्यनर्ध्याण्यपि ।
जातैका किल कन्यका जलनिधेर्दातुं प्रसक्ता यदा सर्वं तद् व्ययितं तदा परिणतौ नामैकमुच्छेषितम् ॥
कथंचित् कालिदासस्य कालेन बहुना मया ।
अवगाढेव गम्भीरमसृणौधा सरस्वती ॥
कथंचिदह्नि हृदये कुशलैर्विनिवेशिता ।
शिक्षा गौरखरेणेव राज्ञा विस्मार्यते निशि ॥
कथंचिन् नैदाघे दिवस इव कोपे विगलिते प्रसत्तौ प्राप्तायां तदनु च निशायामिव शनैः ।
स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो मुखेन्दुर्मानिन्याः स्फुरति कृतपुण्यस्य सुरते ॥
कथं ते त्यक्तसद्वृत्ताः सुखं रात्रिषु शेरते ।
मरणान्तरिता येषां नरकेषूपपत्तयः ॥
कथं त्वदुपलम्भाशाविहताविह तादृशी ।
अवस्था नालमारोढुम् अङ्गनामङ्गनाशिनी ॥
कथं न रमते चित्तं धर्मेऽनेकसुखप्रदे ।
जीवानां दुःखभीरूणां प्रायो मिथ्यादृशो यतः ॥
कथं न लज्जितस्तादृक् सविता तेजसां निधिः ।
ब्रह्माण्डखण्डिकां प्राप्य कुर्वन् पादप्रसारिकाम् ॥
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥
कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि ।
अचेतनं नाम गुणं न लक्षयेन् मयैव कस्मादवधीरिता प्रिया ॥
कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि ।
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मानः ॥
कथं न्याय्यमनुष्ठानं मादृशः प्रतिषेधतु ।
कथं वाभ्यनुजानातु साहसैकरसां क्रियाम् ॥
कथं न्विदं कमलविशाललोचने गृहं घनैः पिहितकरे निशाकरे ।
अचिन्तयन्त्यभिनववर्षविद्युतस् त्वमागता सुतनु यथा प्रभावती ॥
कथं चैषा तन्वी प्रकृतिसुकुमाराङ्गलतिका प्रगल्भव्यापारं रतिकलहखेदं विषहते ।
नलिन्यास्तिग्मोऽपि प्रभवति सुखायैव सविता प्रकृष्टे प्रेम्ण्येवं किमिव न सहन्ते युवतयः ॥
कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।
सुहृत्सु च स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0