भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8456-8475

8456

पुत्रान् स्मरंस्ता दुहित् र्हृदस्या भ्रात् न् स्वस् र्वा पितरौ च दीनौ ।
गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥

8457

कथं भार्यामृते धर्मम् अर्थं वा पुरुषः प्रभो ।
प्राप्नोति काममथ वा तस्यां त्रितयमाहितम् ॥

8458

तथैव भर्तारमृते भार्या धर्मादिसाधने ।
न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ॥

8459

कथं ममोरसि कृतपक्षनिःस्वनः शिलीमुखोऽपहितदिति (?) जल्पति प्रिये ।
निवृत्य किं किमिति ब्रुवाणयानया ससाध्वसं कुपितममोचि कान्तया ॥

8460

कथं मुग्धे कथं वक्रे कान्तायास् ते विलोचने ।
कथं जनानुरागाय कथं जनविपत्तये ॥

8461

कथं यतेत मनुजौ भिन्नैव प्रकृतिर्यतः ।
एकस्थानसमुत्पन्न सुधाक्ष्वेडभिदा स्मृता ॥

8462

कथं राजा स्थितो धर्मे परदारान् परामृशेत् ।
रक्षणीया विशेषेण राजदारा महाबल ॥

8463

कथं विलोकेयममुं युवानं कुमुद्वतीबन्धुमिवोज्जिहानम् ।
भर्तुः स्वसा भाद्रचतुर्थिकेव कलङ्कयत्यर्धविलोकनेऽपि ॥

8464

कथं वीथीमस्मानुपदिशसि धर्मप्रणयिनीं प्रसीद स्वां शिष्यामतिखलमुखीं शाधि मुरलीम् ।
हरन्ती मर्यादां शिव शिव परे पुंसि हृदयं नयन्ती धृष्टेयं यदुवर यथा नाह्वयति नः ॥

8465

कथं संबोध्यते राजा सुग्रीवस्य च का प्रिया ।
निर्धनाः किं च वाञ्छन्ति किं कुर्वन्ति मनीषिणः ॥

8466

कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते ।
यो मीनराशिं मुक्तैव मेषं भोक्तुं समुद्यतः ॥

8467

कथनेन विनाप्याशां पूरयन्ति हि साधवः ।
प्रतिगेहं भासते हि विवस्वान् कथनं विना ॥

8468

कथमगणितपूर्वं द्रक्ष्यते तं नरेन्द्रः कथमपुरुषवाक्यं श्रोष्यते सिद्धवाक्यः ।
कथमविषयवन्घ्यं धारयिष्यत्यमर्षं प्रणिपतति निरुद्धः सत्कृतो धर्षितो वा ॥

8469

कथमद्य कथं च श्व इति जीवनचिन्तया ।
या कृथा हा वृथा दैन्यम् आयुरन्तं प्रयच्छति ॥

8470

कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम् ।
असहनसखीश्रोत्रप्राप्तिं विशङ्क्य ससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥

8471

कथमपि तव वृन्दारण्यमाहात्म्यवृन्दं न हि कथयितुमुच्चैरीश्वरोऽप्यीश्वरः स्यात् ।
अपि च तृणफलानां यस्य लुब्धो रसाय प्रभुरमृतभुजामप्याश्रयद् वत्सभावम् ॥

8472

कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस् तेन पित्रा ममाद्य ।
तव भुजबलदर्पाध्यायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनम् ॥

8473

कथमपि परिचितमुद्रा भुजभुद्रासङ्गतं स्वप्ने ।
उषसि निमीलतनयना शयनान्तः कान्तमामृषति ॥

8474

कथमपि सखि क्रीडाकोपाद् व्रजेति मयोदिते कठिनहृदयस्त्यक्त्वा शय्यां बलाद् गत एव सः ।
इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे स्पृहां पुनरपि हतव्रीडं चेतः करोति करोमि किम् ॥

8475

कथमपि हि भवन्ति क्षेत्रसद्बीजयोगाज् जगदुपकृतिहेतोर्नात्मवृत्त्यै फलन्ति ।
दधति फलसमृद्ध्या दूरमानम्रभावं ननु जगति सुशूकाः साधवः शालयश्च ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc