भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8416-8435

8416

कण्डूयमानः खलु दक्षिणेन हस्तेन भालं भषणो ददाति ।
प्रभाविनम्रीकृतराजचक्रं राज्याभिषेके वरपट्टबन्धम् ॥

8417

कतरत् पुरहर परुषं हालाहलकवलयाचनावचसोः ।
एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा ॥

8418

कति कति न पुनश्चरन्ति हन्ति प्रतिशिखरं प्रतिकाननं कुरङ्गाः ।
तदपि जनमनोविनोदहेतुर् विलसति केष्वपि कोऽपि नाभिगन्धः ॥

8419

कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः ।
क्वचिदपि पुनरुत्तमा मृगास् ते मदयति यन् मद एव मेदिनीशान् ॥

8420

कति कति न लताः कलिताः संचरता चञ्चरीकरसिकेन ।
नलिनि भवन्मधु मधुरं यत् पीतं तत् तदेव परिपीतम् ॥

8421

कति कति न वसन्ते वल्लयः शाखिनो वा सुरभितसुमनोभिर्भूषिताङ्गा बभूवुः ।
तदपि युवजनानां प्रीतये केवलोऽभूद् अभिनवकलिकालीभारशाली रसालः ॥

8422

कतिचिदुद्धतनिर्भरमत्सराः कतिचिदात्मवचःस्तुतिशालिनः ।
अहह केऽपि निरक्षरकुक्षयस् तदिह संप्रति कं प्रति मे श्रमः ॥
कतिचिद् दिवसानि काण्डशेषाः पतिताशेषपुराणजीर्णपर्णाः ।
तरवस्त्वचि गर्हितप्रवालाः समवाप्यन्त न नामतो विवेक्तुम् ॥

8423

कतिचिद् दिवसानि तया गमिता- नि गृहे तव सङ्गमरोचनया ।
कतिचिद् विपिने नलिनीशयने वचनेन पिकीमदमोचनया ॥

8424

न वनेऽपि रतिर्भवनेऽपि न यं प्रतिरूपविनिर्ज्जितरोचनया ।
करुणावरुणालय किं क्रियताम् अरुणायतपङ्कजलोचनया ॥

8425

कति ते कबरीभारः सुमनःसङ्गात् प्रियेऽतिनीलत्वात् ।
भवति च कलापवत्त्वान् निजैरसेव्यः कथं न स्यात् ॥

8426

कति न सन्ति जना जगतीतले तदपि तद्विरहाकुलितं मनः ।
कति न सन्ति निशाकरतारकाः कमलिनी मलिनी रविणा विना ॥

8427

कति न सन्ति महीषु महीरुहः सुरभिपुष्परसालफलालयः ।
सुरभयन्ति न केऽपि च भूरुहान् इति यशोऽस्ति परं तव चन्दन ॥

8428

कति नो विषया निभालिताः कति वा भूमिभुजो न शीलिताः ।
धरणीधर तावकान् गुणान् अवधार्याजगणं गुरुं लघुम् ॥

8429

कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः ।
विदधति तथापराधं जन्मैव यथा वृथा भवति ॥

8430

कत्तिपयदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते ।
तटिनि तटद्रुमपातन- पातकमेकं चिरस्थायि ॥

8431

कतिपयदिवसैः क्षयं प्रयायात् कनकगिरिः कृतवासरावसानः ।
इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ॥

8432

कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति ।
कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशःप्रसरः ॥

8433

कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो मितवितरिता मोहेनाहो मयानुसृतः पुरा ।
त्रिभुवनपतिर्बुद्ध्याराध्योऽधुना स्वपदप्रदः पुनरधिगतस् तत् प्राचीनो दुनोति दिनव्ययः ॥

8434

कतिपयसहकारपुष्परम्यस् तनुतुहिनोऽल्पविनिद्रसिन्दुवारः ।
सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥

8435

कति पल्लविता न पुष्पिता वा तरवः सन्ति समन्ततो वसन्ते ।
जगतो विजये तु पुष्पकेतोः सहकारी सहकार एक एव ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc